________________
कारिका २०.]
अनिन्द्रियप्रत्यक्षम् ।
११. यच भौतिकत्वसिद्धौ शाखाचन्द्रमसोः स्फुटस्यापि युगपत्प्रतिभासस्य भ्रान्तत्वमाशुकारित्वादुक्तम् तदीश्वरज्ञानस्यापि युगपदनेकार्थमाहिणो भ्रान्तत्वमापादयति । न च तत्क्रमवत्, अशेषाग्रहणप्रसंगात्, एकत्रैवानन्तपर्याये उपक्षीणत्वात् । यथ विषयमवाप्य विकशित्वं चक्षुषः तत् साधनधर्ममनुकरोति । तदेवं फल्गुप्रायं परोदितमुपेक्षितमिति । लैङ्गिकत्वैवद् "ऐन्द्रियत्वव्यपदेशः । तेन द्रव्येन्द्रियेण विना यत् प्रत्यक्षं तदनिन्द्रियम् । § १. तत्र प्रन्थकारमतभेदान् दर्शयन्नाह - स्मृत्यूहादिकमित्यादि । स्मृत्यूहादिकमित्येके प्रातिभं च तथाऽपरे । स्वमविज्ञानमित्यन्ये स्वसंवेदनमेव नः ॥ १९ ॥
5
६२. स्मृति ऊहव वितर्कलक्षणः । आदिग्रहणादवार्यैः । तद्रूपमनिन्द्रियमेके अनन्तवीर्यादयः । प्रतिभया 'वो मे भ्राता आगमिष्यति' इत्येवंरूपया निर्मितम् 10 अनिन्द्रियप्रत्यक्षम् । प्रातिभम् चापरे टीकाकृतः । स्वप्नविज्ञानं यत् स्पष्टमुत्पद्यते तदन्ये अनन्तकीर्त्यादयः । स्वसंवेदनमेव नः - अस्माकम् इति ।
६३. एवं मन्यते वार्तिककारः - अर्थाविनाभाविन एव ज्ञानस्य प्रामाण्यमुचितं न स्मृतेः, अर्थमन्तरेणपि तस्या भावात् । प्रत्यक्षादेस्त्वव्यभिचारनिमित्ताभिधानात् कस्यचिद्व्यभिचारेऽपि न दोषः । नत्वेवं स्मृतेरव्यभिचारनिमित्तं अस्ति । अमूढस्मृतेस्तु पूर्वप्रत्यक्षफलत्वात् ॥ न पृथक्प्रामाण्यम् । ऊहस्तु संशयविशेष एष, कुतः तत्प्रामाण्यं स्यात् ? । अवायस्तु प्रत्यक्षानुमानफलत्वेन न ताभ्यां प्रमाणान्तरमिति । काकतालीयसंवादयोरपि प्रातिभ-स्वनविज्ञानयोः प्रमाणत्वे न किंचित् न प्रमाणं स्यात् । तस्मात् स्वैस्य ज्ञानात्मनो वेदनमेव प्रमाणमिति । [१९]
मनसः
६१. मानसं तु मनोऽभावान्निरस्तम् । अथ मनोऽभावे योग्येऽपि विषये कथं युगपत् ज्ञानानुत्पत्तिः १ । उक्तमेतत् - 'उपयोग आभिमुख्यमिति' तद् यत्रात्मनः तन खरूपम् । भवति तत्रानुत्पत्तिरिति । आभिमुख्ये तु युगपदपि । अथ 'भ्रान्ताऽसौ । नैतदस्ति । एवं हि सौगतस्य क्षणिकत्वे सान्तरावभासप्रसङ्गदूषणम् सुदूरं निरस्तं स्यात् । वदुक्तम् ।
www
७७
"पश्चभिर्व्यवधानेऽपि भात्यव्यवहिते व या ।
सी क्षणभ्वंसिनोऽर्थस्य नैरन्तर्ये न वेति किम् ॥” [ प्रमाणवा० ३.१३६] तस्मादात्मैव मनो नान्यदिति । तदेवाह ।
मनःसंज्ञस्य जीवस्य ज्ञानावृतिशमक्षयौ ।
यतचित्र ततो ज्ञानयोगपद्यं न दुष्यति ॥ २० ॥ इति । ६२. मन इति संज्ञा अस्य स एव मन इत्यर्थः । तस्य ज्ञानावरणक्षयोपशमौ यतश्चित्रौ तो युगपज्ञानमिति । [२०]
१. 'ये क्षीण' क० मु० । २. विकासि क० मु० । ३. लैङ्गिकवद क० मु० । ४. 'वदिन्द्रियव्य° अ० मु० । ५. स्मृतिश्व वितर्कलक्षणा सु० । स्मृतिश्व वि० क० । ६. 'दवायस्वरूपम' ब० । ७. खमस्य क० मु० । ८. भ्रान्तोऽसौ ब० क० । ९. सा मतिर्नामपर्यन्तक्षणिकज्ञानमिश्रणात् प्रमाणवा० । १०, मस्य सु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org