________________
न्यायावतारसूत्रवार्तिकवृत्तौ [२. प्रत्यक्षपरि० घेघेन च कारणान्तरप्रभवत्वम् । विशेषनिषेधस्य शेषाभ्यनुज्ञाविषयत्वात् इति साध्यविकलो दृष्टान्तः । तथा च मनसि नै भौतिकत्वम् नाप्यभौतिकत्वमिति । अथ भूतादुत्पत्तिप्रतिषेधेन नित्यत्वम् । तत्राप्यभ्युपगमव्याघातो मनस्यपि नित्यत्वानभ्युपगमात् । इन्द्रियत्वं च उक्तविशेषणस्यापरोक्षज्ञानजनकत्वेन ने भूतादुत्पत्तिप्रतिषेधेनेत्यन्यथासिद्धम् । • ६६. निर्मूलं चेन्द्रियाणामहंकारप्रभवत्वम् । तत्सद्भावे प्रमाणासंभवात् । तथा हिप्रधानसद्भावे सत्येषा प्रक्रिया । तस्य चासत्त्वम् वक्ष्यमाणमिति । येषां चौसंसारमण्डलव्यापीनीन्द्रियाणि तेषामशेषविषयग्रहणप्रसङ्गः । अथादृष्टवशात् नियतदेशा वृत्तिय॑ज्यत इति चेत्; अत्र वृत्तीनां तादात्म्ये न किंचिदुक्तं स्यात् । व्यतिरेके तु तदेवेन्द्रियमिति संज्ञाभेदमात्रमेव । ॥ ७. अथ नियतविषयावबोधान्यथानुपपत्त्या तदाकारतेवेन्द्रियस्य परिनिश्चीयते । तर, अन्यथाप्युपलम्भात् । तथा हि । नियतार्थसन्निकर्षेऽप्युपलम्भो घटत एव । न च व्यापित्वं परस्यामीष्टतरमिति नेह प्रतन्यते इति । इति विप्रतिपत्तीः प्रतीलाह-जीवांशात् कर्मनिमुक्तादिति।
जीवांशात् कर्मनिर्मुक्तादिन्द्रियाण्यधितिष्ठतः।
जातमिन्द्रियजं ज्ञानं विनेन्द्रियमनिन्द्रियम् ॥१८॥ ६८. जीवप्रदेश एव कर्मक्षयोपशमवान् इन्द्रियम् , नान्यत् । तथाहि - किं चक्षुरीयेव इन्द्रिय- रूपादि जानाति, किं वा प्रकाशयति । प्रथमपक्षे एकस्मिन् अपि शरीरे खरूपम् । पश्चात्मानः प्राप्नुवन्ति । अहंकार-भूतानामचेतनत्वात् तत्प्रकतेरिन्द्रियस्य कर्ष द्रष्टुत्वमिति । अब प्रकाशयति । किन्न तमसि । बिडालादेर्भूयस्तेजः प्रकाशयत्येव । * किन मनुष्यस्य । स्वल्पत्वात् तेजस इति चेत् ; बहूनामेकत्र दृष्टिनिपाते किन प्रकाशयति ।
६९. अपि च तमः किं तेजोऽभावः किं वा वस्त्वन्तरमिति । अभावल नायनरश्म्यावारकत्वायोगात् । वस्त्वन्तरमपि रूपमेव रूपस्यावरणम् । अन्यथा वाय्वादेरप्यावारकत्वं स्यात् । ततः तमसा रूपवता चक्षुरश्मीनां संयोगे तमोदर्शनमासज्येत । कृष्णं रूपं रयत इति चेत्, न, तथाविधदर्शनस्य मिनाक्षेऽपि भावात् । तमेन्द्रियं भौतिकम् । किन्तु भात्मवेन्द्रियम् । तदुक्तम् - "लयुपयोगौ मावेन्द्रियमिति" [तत्त्वार्थ ० १.१०] लन्धिः कर्मक्षयोपशमः । उपयोग आभिमुख्यम् ।
६१०. यद्येवम् इन्द्रियव्याघाते अन्धकारावरणादौ किन्न जानाति इत्याह-इन्द्रियाण्यधितिष्ठत इति । एतदुक्तं भवति-अनुपहतचक्षुरादिदेशेष्वात्मनः कर्मक्षयोपशमा • तेनास्थगितगवाक्षतुल्यानि चक्षुरादीनि उपकरणमात्राणि, आत्मनो ज्ञानोत्पत्तौ कर्मणो • वैचित्र्याद् । अन्ययाऽऽत्मनो व्यापित्वात् मुक्तात्ममनःसंयोगजं प्रत्यक्षं किं नोपैयते ।
१. मनसि भौमु०। २. कलेन भूक.मु०। ३. प्रमाणसाक०मु०। ४. पाई । ५. पानुप°मु०। ६. 'न्यते इति वि.क.मु०। ७. मला इन्दि मु०। ८'रादिरेष ब. ब०। ९. दृष्टिपाते क० मु०। १०. भावेन्द्रियाण्य' मु०। ११. देशेष्वेवात्मनः काम। १२. नोपपद्यतेक.मु०।।
Jain Education International
For Private & Personal Use Only
'wwww.jainelibrary.org