________________
कारिका १७.]
इन्द्रियाणां भौतिकत्वसाधनम् ।
७५
दृष्टम् । अतो न भौतिकमिति । तथाऽनियतविषयत्वाच्च । यदि चक्षुस्तैजसं स्यात् रूपस्यैव गुर्णत्वात् ग्राहकं भवेत् न द्रव्यसामान्यादेरिति । एवं शेषेष्वपि नियमेन स्वगुणप्राहकत्वप्रसङ्गः । न चैतद् दृष्टम् । अतो न भौतिकत्वम् । इतश्च न भौतिकानीन्द्रियाणि, इन्द्रियत्वात् । यद्यत् इन्द्रियं तत्तत् अभौतिकं दृष्टम् यथा मनः तथा चेन्द्रियाणि अमूनि तस्मान भौतिकानि इति ।
§ २. यत्तावत् 'अप्राप्यकारित्वात्' इति साधनं तदसिद्धम् । व्यवहितार्थानुपलब्ध्या प्राप्तेरुपलम्भात् । अन्यथा हि व्यवहितस्याग्रहणम्, अन्तिके च ग्रहणं न स्याद् इन्द्रियाणां भौतिकत्व - अप्राप्तेरुभयत्राविशेषात् । आवरणानुपपत्तिश्च प्राप्तिप्रतिषेधत्वात् । तथा च साधनम् । प्राप्तिप्रतिषेधं कुर्वदावरणमग्रहणाय कॅल्पते । दृष्टं चावरणसामर्थ्यम् दूरे प्रकाशकत्वम् । अतः प्रदीपस्येव प्राप्तार्थपरिच्छेदकत्वम् । तथा च चक्षुः प्राप्तार्थ - 10 परिच्छेदकं व्यवहिताप्रकाशकत्वात् । यद्यद् व्यवहिताप्रकाशकं तत्तत् प्राप्तार्थपरिच्छेदकम् । यथा प्रदीपः । तथा च व्यवहिताप्रकाशकं चक्षुः । तस्मात् प्राप्तार्थपरिच्छेदकमिति प्राप्तिसद्भावे प्रमाणोपपत्तेः । शाखाचन्द्रमसोः कालभेदेन संबन्धेऽप्याशुभावादुत्पलपत्रशैतव्यतिभेदाभिमानवत् युगपद्ग्रहणाभिमानः ।
§ ३. यच्च 'महदणुप्रकाशकत्वम्' तदप्यन्यथासिद्धत्वात् असाधनम् । तथा हि । चक्षुर्ब- 11 हिर्गतम् बामालोकसंबन्धात् विषयपरिमाणमुत्पद्यते महदाद्यर्थप्रकाशनम्, नाभौतिकत्वादिति । यथोक्तम् – 'तैजसत्वाद् रूपस्यैव प्रकाशकं स्यात्' इत्येतत् असत् । प्रदीपेऽदर्शनात् । # हि प्रदीपस्तैजसत्वात् रूपस्यैव प्रकाशको दृष्टः किं तर्हि रूपद्रव्यसामान्यादेरिति” । तावानेव च विषयचक्षुषः । अतस्तैजसत्वं न विरुध्यते इति ।
5
६४. रूपादिषु मध्ये नियमेन रूपप्रकाशकत्वम् तैत्तैजसत्वे अनुमानमिति वक्ष्यामः । 20 नियमेन गन्धादिषु गन्धस्यैव प्रकाशकत्वम् पार्थिवत्वात् घ्राणादेरिति । न चैकप्रकृतिकस्वे विषयव्यवस्थोप ँब्धिरिति नानाप्रकृतिकत्वम् । तथा हि एकरमात् कारणात् उपजाताः प्रदीपभेदाः समानविषया इत्युपलब्धम् । तद्वदिन्द्रियेषु समानविषयत्वं स्यात् । दृष्टा तु घ्राणादेर्गन्धादिषु व्यवस्थेति नानाप्रकृतिकत्वम् । तथा च नानाजात्युपादानानि इन्द्रियाणि द्रव्यत्वे सति प्रतिनियतविषयत्वात् । यद्यत् द्रव्यत्वे सति प्रतिनियत विषयम्, तत्तत् नानाजात्यु- 25 पादानं दृष्टम्, यथा व्यजनानिलप्रदीपकस्तूरिकादि । तथा चैतानि द्रव्यत्वे सति प्रतिनियतविषयाणि । तस्मान्नानाजात्युपादानानि इति । तथा हि-ज्ञानशब्देष्वेकजायुपादानत्वम्, प्रतिनियतविषयत्वं चेति व्यभिचारः । तदर्थं द्रव्यत्वे सतीति विशेषणम् । न चास्य पक्षधर्मत्वोदिमतोऽप्रमाणत्वमेतिप्रसंगात् ।
५. यैवाभौतिकत्वेऽनुमानमिन्द्रियत्वादिति । अत्र भूतादभिनिर्वृत्तम् भौतिकम् । तत्प्रति- 13 १. गुणकत्वात् क० मु० । २. द्रष्टव्यसा अ० य० । ३. शेषेष्वनियम' मु० । ४. वेधवत्त्वात् अ० ब० । ५. कल्प्यते ब० । ६. दूरे प्रका' क० मु० । ७. 'पत्रव्यति क० । ८. प्रकाशलम् अ० । ९. नालोकिक अ० । १०. शकं इत्ये मु० । ११. तर्हि मु० । १२. "रिति न तावानेव विष ब० । °रिति न च नैव विष क० मु० । १३. 'लम् तु तै क० मु० । १४. त्वम् पार्थि° अ० ब० । १५. न चैकप्रावृत्तिकत्वे अ० । १६. लब्धेरिति मु० । १७. रिकादेः मु० । १८. 'जात्याद्युपा° अ० । १९. खादिकमत क० । २०. 'समिति प्रमु० । २१. वयाभौतिक मु० । २२. "यसमिति अ० ब० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org