________________
म्यायावतारसूत्रवार्तिकवृत्तौ
[ २. प्रत्यक्षपरि
६२. प्रतिगतम् अक्षं प्रत्यक्षमिति । 'प्राप्तापने' त्यादिना तत्पुरुषे परवल्लिङ्गताप्रतिषेधात् प्रत्यक्ष- त्रिलिङ्गः प्रत्यक्षशब्दः गमनक्रियेव गोत्वस्य अक्षाश्रितत्वमर्थसाक्षात्कारित्वस्योविचारः । पलक्षणम् । तेनानक्षजेष्वपि तच्छब्दवाच्यता नायुक्ता । इदानीं तस्य लक्षणमाह - विशदमिति ।
९३. अथ किमिदं वैशद्यम् ? । न तावन्निर्विकल्पकत्वं अनभ्युपगमात् । अथ स्पष्टत्वम्, तदा बालापेक्षया वृद्धस्यापि प्रत्यक्षं न स्पष्टम् । तथा, दूरवस्तुनि प्रत्यक्षं चे । अथ तच्छ्रुतं; तदसत्, इन्द्रियजत्वात् । अथ त्रिधा श्रुतम् - प्रत्यक्षपूर्वकम्, लैङ्गिकम्, शाब्द चेति । तन्न, प्रत्यक्षपूर्वकस्य प्रमाणभूतस्य लैङ्गिकत्वात् । न च तद्प्रमाणम् । नापि लैङ्गिकम्, व्याप्तिस्मरणादेरननुभवात् । यत् प्रत्यक्षेण परोपदेशसहकारिणा शब्दोल्लेखि ज्ञानं 10 जन्यते तत् प्रत्यक्षपूर्वकं श्रौतम् तच्चाप्रमाणम्, प्रत्यक्षनिश्चितार्थे प्रवर्तमानत्वात् । तस्मात् यदुक्तम् -
७४
" त्रिधा श्रुतमविप्लवम्” [ प्रमाणसं ० का ० २]
1
इति तदसंगतम् । विप्लवस्योक्तत्वात् । येन च मूढस्य प्रत्यक्षेऽपि वस्तुनि पूर्वसाधर्म्यादर्थक्रियाकारित्वनिश्चयः क्रियते, नित्यानित्यत्वनिश्चयो वा तलैङ्गिकम् । न चैवं दूरदेशादौ ॥ वस्तुन्यस्पष्टज्ञानमिति । तन्नेदं लक्षणं व्यापीत्याशङ्कयाह - वैशद्यमिदन्त्वेनावभासनम् इति । इदमो भावः इदन्त्वम्-साक्षात्कारित्वमित्यर्थः । तेनानुमानादेर साक्षात्कारिणो निरासः ।
६४. इदानीं व्यक्तिभेदमाह । त्रिधेति । त्रयो विधाः प्रकारा यस्य तत् त्रिविधम् । त्रैविध्यमेवाह - 'ऐन्द्रियमनिन्द्रियं योगजं चेति इति ।
१५. तत्र इन्द्रियस्य इदम् ऐन्द्रियम् । तद्विपरीतमनिन्द्रियम् । योगश्चित्तवृत्तिनिरोधो 20 घातिकर्मक्षयहेतुः । तस्माज्जातं योगजम् । चः समुचये । इतिः अवधारणे । इयदेव प्रत्यक्षम् न मानसादि । [१७]
११. अथ किमिदमिन्द्रियम्, तत्र विप्रतिपत्तिदर्शनात् । तथा हि-भौतिकानीन्द्रियाणि इन्द्रियाणां स्थापयितुं वैशेषिकः पूर्वपक्षमुत्थापयति । नन्वाहंकारिकत्वादि (कत्वमि) न्द्रिआहंकारि - कत्लपक्षः । याणाम् । तथा हि- प्रकाशकत्वं सत्त्वधर्म इति सात्त्विकादहंकारादिन्द्रियाणा2 मुदयः । किमत्र प्रमाणमिति चेत्; अप्राप्यकारित्वम् । तथ शाखाचन्द्रमसोस्तुल्यकालग्रहणाद्विज्ञातम् । अन्यथा हि शाखासंबन्धोत्तरकालं चिरेण चन्द्रमसा संबन्धायुगपग्रहणं न स्यात् । अस्ति चातोऽप्राप्यकारित्वम् । तथ भौतिकेषु न संभवति । प्रदीपादिषु अदर्शनात् इत्यभौतिकत्वमन्येषामपि प्रतिपत्तव्यम् चक्षुर्दृष्टान्तबलादेव । तथा, महदणुप्रकाशकत्वात् । भौतिकं हि यावत् परिमाणं तावत्येव क्रियां कुर्वद् दृष्टमिति । तथा हि20 अल्पपरिमाणं वास्यादि महान्तं वटवृक्षं प्राप्य छिदां न करोति इति दृष्टम् । किं तर्हि स्वव्याप्तप्रदेश एवेति । चक्षुरप्यल्पपरिमाणत्वात् न पर्वतादिपरिच्छेदकं स्यात् । तत्तु ·
१. च । अथ श्रुतं ब० । च । अथ त्रिधा अ० । २. वाह इन्द्रियं तद्विपरीतम् मु० । तद्विपरीतस् क० । ४. असंभवात् मु० क० ५. स्वव्याप्य अ० ।
Jain Education International
For Private & Personal Use Only
३. मनिन्द्रियं
www.jainelibrary.org