________________
कारिका १५.]
अभावप्रामाण्यवादः। तब नास्तीति विकल्पेऽपि न दण्डवारितम् । यथा युक्तिवाधितत्वेऽपि तद्विषयस्याभ्युपगमा, तथा नास्तीति विकल्पविषयस्यापि । तत्प्रामाण्यमप्यस्तीति विकल्पवत् नास्तीति विकल्पस प्रापकत्वात् न वार्यते ।
६३५. ननु न विधिविकल्पस्य तत्र प्रामाण्यं किन्तु दर्शनमेव स्वाकारार्पणात् तद्रपदामापनं वस्तु प्रापयत् प्रमाणम् । प्रतिषेधविकल्पेऽपि दर्शनस्यैवंरूपता किमिति न कथ्यते । अथ विधिविकल्पस्य पारंपर्येण यो विषयो नीलादिः स प्राप्यते, प्रतिषेधविकल्पस्य तु यो विषयः तस्य न कथंचित् प्राप्तिरिति तदाकारतामापन्नं दर्शनं न पत्र प्रमाणम् । कथं न प्राप्तिर्यतो नीलं प्राप्यमाणं तत्प्रच्युत्यविनाभूतपीताद्यसंसृष्टं प्राप्यते न शुद्धं तस्याश्च पदार्यव्यवस्थानिबन्धनायाः प्रच्युतेः कथंचित् प्राप्तिरस्तीति किन्न तत्र दर्शनं प्रमाणम् ? । तदनभ्युपगमे च पदार्थव्यवस्था नास्तीति उक्तं तैर्लाक्षणिकविरोध प्रदर्शयद्भिः। कल्पिताया-॥ स्तस्याः सत्त्वाभ्युपगमाददोष इति चेत्, एतन्नातिसुभाषितम् - अकाल्पनिकवस्तुव्यवस्थापकत्वं कल्पितत्वं च ।
६३६. अथोच्येत - तस्याः प्रापकत्वेऽपि कथंचित् देर्शनं न प्रमाणं तदर्थक्रियाऽकरणात् । ननु केयमर्थक्रिया यामसौ न करोति ? । नीलादिसाध्यामिति चेत् । तन्न, नीलाविध्वपि तुल्यम् । तेऽपि न परस्परस्यार्थक्रियां कुर्वन्ति । अथ वस्त्वन्तरसाध्यार्थक्रियाऽकरणेऽपि ॥ स्वकार्यकर्तृत्वं तेषामस्तीत्युच्यते । तत् प्रच्युतेरपि न केनचिद्वारितम् । तथाहि-पीताद्यवच्छेदकत्वं तत्प्रच्युतेर्भवद्भिरभ्युपगतम् । तदनुमानवदर्शनपृष्ठभाविविधिविकल्पवच प्रतिषेधविकल्पस्यापि प्रामाण्यम् । तन्नानुपलब्धेर्लिङ्गादसव्यवहारयोग्यतोऽवसीयते । किन्तु अभाव एष । स तु प्रमाणान्तरगम्यः । न चे सदुपलम्भकप्रमाणगम्यः पूर्वोकन्यायेन ।
६३७. इतश्चैतन्न । यतः कश्चित् कुतश्चिदागतः पृच्छयते - तंत्र प्रदेशे चैत्रो स्थितो न . वेति । स प्रभात् चैत्रं स्मृत्वा तदभावमवगत्य वक्ति न तत्र स्थितः । न च तत्र तदभावावगमे तस्य तदानीमिन्द्रियव्यापारः । नापि लिङ्गं किंचिद्विद्यते । न चानुपपद्यमानत्वम्, नाप्यागमः, उपमानं वा । न च तदभावप्रतिपत्तिर्नास्ति, प्रभस्योत्तरदानात् । 'ने बाध्यते, संदिग्धा वा । नापीयं स्मृतिः, पूर्व तदभावानवगमात् । प्रतिषिध्यमानपदार्थस्मरणं तदभावावगमनिमित्तम । तच निमित्ताभावात् पूर्व तस्य नोत्पन्नम् इदानी प्रश्ने सति संजातम् ।
६३८. अथोच्येते -पूर्वमेव तत्रोपलब्धिलक्षणप्राप्तःशेषवस्त्वभावग्रहणं मेचकबुद्ध्या । तस्मिन्सति यस्य स्मरणादिसहकारिकारणमस्ति तस्य व्यक्तितिरस्कृतस्य गृहीतस्य स्फुटप्रतिभासविर्षयता । एतदसाधु । यतोऽस्य ग्रहणं भवद्विकल्पद्वयं नातिवर्तते स्वतनस्याशेषवस्त्व
१. र्येण विष क० मु०। २. प्राप्यन्तु मु०। प्राप्यते तस्या' अ०। ३. कथं न क० मु०। ४. कवं विक अ०। ५. दर्शकं क० ब० मु०। ६. तच अ० ब०। ७. ते च न अ०। ८. परस्पार्थ क० मु०। ९. ग्यतानुमीयते मु०। १०. एव तत्र प्रमा मु०। ११. न तु सदुक० मु०। १२. केन न्यायेन क० मु०। १३. पत्र अ०। १४. तत्र सदभा' क० मु०। १५. मानः नामु०। १६. तदप्रति मु० क०। १७. दानात् नापीयं मु०। १८. गमे नि क०म०। १९. अथोत्पत्तेः पू° मु०। २०. प्राप्तावशेष मु०। २१. तस्य तस्य व्य मु क०। २२. विशेष इति ब०। विशेष्यता क०मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org