________________
न्यायावतारसूत्रवार्तिकवृत्तौ
[ २. प्रत्यक्षपरि०
जनकत्वम् ? । न सामर्थ्यलक्षणं सत्त्वम्, तस्य क्षणभङ्गभङ्गे निषेत्स्यमानत्वात् । तद् अभावस्य प्रतिभासाजनकत्वात् अप्रमेयत्वमयुक्तम् ।
७०
३१. अथ न पूर्वोक्तेन निमित्तेन तस्याप्रमेयता किन्तु भावेव्यतिरिक्तस्य तस्यासंभवात् एवमुच्यते । एतत् असत्, रूपाद् रसस्य कथं भेदः १ । किमत्र प्रष्टव्यम् ? । भिन्नप्रत्ययविष• यत्वात् तस्य तस्माद्भेदे ऽत्राप्यस्तीतिप्रत्ययप्रतिभास्यस्य भेदः, तस्मिन्वाऽसति कथं विलक्षणः प्रत्ययः १ ।
I
१३२. तत्रैतत् स्यात् - न प्रतिभास्यभेदान्नास्तीतिप्रत्ययस्य पूर्वस्माद्वैलक्षण्यम् । किन्तु सामग्रीभेदात् । नन्वेकोपलम्भानुभवाद् द्वयोरुत्पादे कथं सामग्रीभेदः १ । नैष दोषः । प्रतिषिष्यमानस्मरणस्य नास्तीतिप्रत्यये पूर्वस्मादाधिक्यात् । ननुं तस्यैव कथमुत्पत्तिः १ । न 1 हि अप्रतिबद्धपदार्थदर्शनेऽन्यस्य स्मरणमतिप्रसङ्गात् । एकज्ञानसंसर्गः प्रतिबन्ध इति चेत्; वतव्यं तर्हि कोऽयमेकज्ञानसंसर्ग: ? । पूर्व द्वयोः सह प्रतिभास्यतेति चेत्; तर्हि यो यत्र न दृष्टः तस्य तत्रादृश्यमानस्य प्रतिषेधो न स्यात् । प्रतिषिध्यमानस्मरणनिमित्ताभावाद्योग्यतेति चेत् । साऽपि न युक्ता दर्शनं विना, कार्यानुमेयत्वात् तस्याः ।
९३३. अंथ ब्रूयात्-न योग्यता पूर्वोक्ताऽस्माभिर्भण्यते किन्तु - 'यदि प्रतिषिध्यमानं वस्तु ॥ तत्र सन्निहितं भवेत् तदा भूतलमिव तंत्र द्रष्टुं शक्यं स्यात् - इयं योग्यता एकज्ञानसंसर्गलक्षणा । अस्यामपि योग्यतायां नैकस्यैव प्रतिभासो भवेत् । किन्तु यावत् तत्र सन्निहितं द्रष्टुं शक्यं तस्य स्मरणे" सति प्रतिषेधप्रतिभासः स्यात् । न चैतदस्ति, कस्यचिदेव प्रतिभासात् । तन प्रतिषेधविकल्पोत्पत्तौ प्रतिषिध्यमानस्मरणं पूर्वस्मात् सामग्र्यन्तरम् । तत् नास्तीति विकल्पो न भवेद् एकनिमित्तोत्पन्नयोः वैलक्षण्या भावात् । भवतु वा तदुत्पत्तौ सामग्र्यम्वरम्, 20 तथापि नोपायभेदात् विकल्पयोर्भेदः किन्तु प्रतिभासभेदात् प्रत्यक्षानुमानयोरिष । तदुक्तम्"प्रामाण्यं वस्तु विषयं द्वयोरर्थभिदां जगौ । प्रतिभासस्य भिन्नत्वादेकस्मिंस्तदयोगतः ॥"
युक्तं चैतत् । अन्यथा नास्तीति प्रत्ययेऽप्रतिपत्तिरेव स्यात् । यतः प्रतिभास्यं तावदसत्त्वात् न प्रतिभाति, प्रतिभासोऽपि वक्ष्यमाणात् स्वसंवेदननिषेधात् नैव । न च वस्त्वन्तरमस्ति । " अतो नास्तीति विकल्पोत्पादानुत्पादयोः प्रतिभासाभावात् तुल्यता प्रसक्ता ।
३४. अथ भेदानुमानस्य प्रतिभासस्य संभवात् प्रत्यक्षानुमानयोर्विषयभेदाद्भेदोऽर्ति, प्रमाणत्वात् । नास्तीति विकल्पस्य पुनर्न प्रतिभासोऽस्ति' । नापि प्रमाणत्वम् । अतः तुल्यता तस्य न युक्ता । ननु अनुमानेऽपि नैवें प्रतिभास्यं वस्त्वस्ति, आरोपितस्य तद्विषयत्वेनाभ्युपगमात्
I
१. भावाव्यति क० मु० । २. 'द्वेदोऽत्रापि अ० ब० मु० । ३. 'प्रतिभासः स्यात् तदसत् तस्मि' मु० । 'प्रतिभासस्य क० । ४. क्षणः तत्रै° अ० । ५. 'नुभवाध्यवसाययोरुत्पादे मु० । ६. न तु मु० । ७. एकशाने सं° अ० ब० । ८. संसर्गः पूर्व क० । ९. तर्हि तयोः यत्र मु० । १०. "दृश्य प्रति अ० ब० । ११. यदि ब्रूयात् मु० । तस्याः । बूयात् अ० क० । १२. मित्र द्रष्टुं मु० । मित्र तद् क० । १३. स्मरणासति क० । १४. प्रतिभास्यमे' क० । प्रतिभासस्य में मु० । १५. ततः मु० १६. न प्रतिभासो मु० । १७. मेदो नानुमानस्य अ० ब० । १८. भेदेऽस्ति अ० । भास्योऽस्ति क० मु० । २०. नैवाप्रति अ० ।
१९. प्रति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org