________________
पारिका १५.
.1
अभावप्रामाण्यवादः ।
नियमो जनकस्यैव भावस्य प्रतिभासः । यः प्रतिभासे प्रतिभाति प्राह्माकारो वर्तमानावच्छिन्नो न तस्य प्रतिभाससमान कालत्वेन जनकत्वम् । यस्य च जनकैता तस्यातीतत्वान्न प्रतिभासः । तत्रैतद्भवेत् - जनकस्य न साक्षात् प्रतिभासः । किन्तु स्वाकारजननमेव तस्य प्राह्मत्वम् । न तु प्रतिभाससमानकालत्वेन तदभावस्य सामर्थ्यं तथाविधं मौह्यत्वेन संभवति ।
६९
२७. अत्र वदन्ति – कथमसौ प्रतिभाससमानकाल आकारोऽनुपकारकस्तत्र प्रतिभाति । न चान्यस्योपकारकत्वेऽन्यस्य प्रतिभासोऽतिप्रसंगात् । एकसामध्यधीनत्वेनातिप्रसंगनिवारणं प्रतिक्षिप्तम् । किंच, उपकार्याभावाज्जनकस्य भावस्य प्राह्मत्वेन परिकल्पितस्योपकारकत्वमनुपपन्नम् । न च ज्ञानप्रतिभास्याकार उपकार्यः, तस्य स्वतस्त्वतोऽसत्त्वेनाभ्युपगमात् । अतः कथं भावस्योपकारकत्वम् १ मा भूत् ज्ञानाकारस्योपकार्यता ज्ञानं तु परमार्थसद्विद्यते । तदपेक्षयोपकारकत्वं भविष्यति । एतदप्यसत् । ज्ञानप्रतिभासिन आकारस्यापरमार्थसत्त्वे " तद्व्यतिरेके ज्ञानस्याप्यसत्त्वप्रसङ्गः तस्य चाबोधरूपता । कः पुनस्तद्रूपतायां दोषः १ r न कश्चित् तदसत्त्वव्यतिरेकेण । यथाहि प्राकारे वृत्तिविकल्पादिबाधकं प्रमाणं प्रवृत्तमसन्त्वं प्रतिपादयति तथा तदव्यतिरिक्तस्यापि बोधाकारस्यासत्त्वमावेदयेत् । तदकार्यकारणभूत एव प्राह्मत्वेनाभिमतो भावः प्रतिभाति । तद्वद्भावोऽपि ।
६२८. ननु एवमजनकस्याभावस्य प्रतिभास्यत्वे सर्वदा अभावप्रतीतिः स्यात् । स्यादयं 18 दोषो यदि तद्ब्राहकप्रमाणोत्पत्तौ निमित्तं सर्वदा स्यात् । किं पुनस्तद् यत् सर्वदा न भवति ? | प्रतिषिध्यमानपदार्थस्मरणम्, भावोपलम्भा । अतः प्रमाणोर्तेत्तिनिमित्तान्वयव्यतिरेकानुविधानात् कादाचित्कत्वमभावग्राहिणो न त्वभावस्य जनकत्वात्, तस्य सदैव भावात् । तत् प्रमाणान्तरमभावः - एवं केचिदाहुः ।
२९. अम्ये त्रुवते - अभावस्य प्रतिभासजनकत्वं किमक्षणिकत्वान्नेष्यते, आहोखित् प्रतिभासजनकत्वेन भावाद्वैलक्षण्यं न स्यादित्युच्यते १ । यदि पूर्वः पक्षः तदाँ एतत् प्रतिसमाधात्यते क्षणभङ्गभङ्गे । यथा भावस्याकिंचित्के सहकार्यपेक्षस्य कार्यजनकत्वं तथाऽभावस्मापीति वक्ष्यते । अथ द्वितीयः । सोऽपि न युक्तः । न हि जन्यर्त्वजनकत्वाद्वैलक्षण्यानुपपत्तिः । एवं बैलक्षण्ये जगति न किंचित्कुतश्चित् विलक्षणं भवेत् । पूर्वोक्तस्य निमित्तद्वयस्य संभवात् ।
1
३०. अथ तस्मिम्सत्यपि हेतुभेदात् प्रतिभासभेदाश्च भावानां विलक्षणता । तद्वद्भावेऽपि स्यात् । अथोध्येत - सर्वसामर्थ्योपाख्याविरहलक्षणमसत्वम् । तदेव चाभावोऽतः कथं तस्य
१. जो तस्य क० मु० । २. प्रतिभासमानका क० मु० । ३. यस्य जन° अ० क० मु० । ४. जनक य० । ५. प्राहकलेन मु० । ६. तस्य तत्त्व क० मु० । ७. परमार्थ स° मु० ।
Jain Education International
८. रेकशान क० मु० । ९. प्रसङ्गात् । तस्य वाबोध' अ० ब० । प्रसङ्गः तस्य बोध' क० मु० । १०. प्राह्मग्राहकाकारे वृक० 1 ग्राहकाकरि ( कारे) मु० । ११. तद्व्यति मु० । १२. प्रमाणोपपत्तौ ब० क० मु० । १३. °ध्यमानं पदा' क० मु० । १४. णोपपत्तिनि' क० मु० । १५. तदेतत् क० मु० । १६. 'चित्करस्य सह क० मु० । १७. "पेक्षस्याकार्य ब० । १८. जन्यत्वाज्जन क० । १९. एवं ताबद्भावबैल' अ० । २०. प्रतिभासते मे क० मु० ।
For Private & Personal Use Only
24
25
www.jainelibrary.org