________________
न्यायावतारसूत्रवार्तिकचौ
[ २. प्रत्यक्षपरि० यतो भावैकपरमार्था भावाः स्वरूपेण । पररूपेण तु न सन्तो नाप्यसन्तः । तथा पूर्वोक्तदोषान्निवृत्तिः । तत् स्थितमनुपलब्धेः सविशेषणाया असद्व्यवहारयोग्यत्वं प्रति लिङ्गता ।
२२. ननु अनुपलब्धेः किं विशेषणं येनैवमुच्यते ? । किमत्र प्रष्टव्यम् ? । निषिध्यमानस्य दृश्यत्वम् । तम, तदानीमसैन दृश्यते । कथं तथा व्यपदिश्यते १ । अदृश्यमानोऽपि दर्शन* योग्यश्चेत् तद्योग्यत्वम् । दर्शनाभावात् कथमवसितम् १ । अत्रोक्तं व्याख्यातृभिः - दृश्यत्वं समारोपितं तत्र, न तु वास्तवम् । अतः समारोपितदृश्यत्वाभिप्रायेणानुपलब्धेः पूर्वोक्तं विशेषणम् । एतच पूर्वावगतस्य घटस्य शशविषाणस्य चाऽनबगतस्य द्वयोरपि तुल्यं कचित्प्रति-मेवे । तत् स्थितं यथोक्तविशेषणाया अनुपलब्धेर्व्यवहार योग्यतास्वभावः प्रमेयम् । न तु भावव्यतिरिक्तोऽभावः ।
10 २३. अत्राहुः - सर्वस्य ज्ञानद्वयं समुपजायते ' इदमस्ति' 'इदं नास्तीति' । तयोध विभिन्नविषयावभासित्वाद्वैलक्षण्यं सुप्रसिद्धम्, एकस्य भावविषयत्वात् अपरस्याभावविषयत्यात् । तत्रैतत् स्यात् द्वयोर्मध्ये कतरद्भावप्रतिभास्यन्यदभावस्य । ननुं स्फुटे प्रतिभासभेदे कृतस्त्यः संशयः १ ।
२४. अत्राहुः - प्रतिभासोत्पादादेष । भावो हि सामर्थ्यलक्षणः शाखे गीयते वैद्विल" क्षणेनं चाभावेन भवितव्यम् । अन्यथा तयोर्न स्यात् स्वरूपाभेदाद्वैलक्षण्यम् । तस्मात् तस्यासमर्थत्वेनैव भवितव्यम् । असामर्थ्याचजनकत्वम् । तस्माच कुतः प्रतिभासः १ । सामर्थ्ये भावस्यैवाभाव इति नामकरणम् । न च तन्निबन्धनमर्थतथात्वम् । तत् भाव एव वस्त्वन्तरासंर्भैयतयोपलभ्यमानः पूर्वोक्तं " ज्ञानद्वयं जनयति । अत इदमभावज्ञानं भावप्राहिप्रमाणसामर्थ्यादुत्पन्नं न प्रमाणान्तरम् ।
६२५. अनोच्यते - भावसामर्थ्यादस्योत्पादे ऽस्तीत्येवमुत्पत्तिः स्यात् न तु नास्तीति, जनकस्य भावैकस्वभावत्वात् । यथानुभवं च विकल्पेनोत्पत्तव्यम् । न त्वन्यथा विकल्पः । तत्रैतद्भवेत् — अन्यापेक्षया जनकस्य प्रतिषेधरूपताप्यस्तीति अतोऽयमदोषः । नैतच्चारु । तस्योभयरूपत्वे पूर्वोक्तदोषानुवृत्तेः । एतच भवद्भिरेवोपगतम् - 'स्वरूपेण सन् पररूपेण तु न सन् नासन्निति' वैदेद्भिः । तद्विधिस्वभावत्वात् अस्तीति विकल्पं जनयेत् न प्रतिषेधविकल्पम्, " अतद्रूपत्वात् । अस्ति च प्रतिषेधविकल्पो भवतां मते स्वसंवेदनप्रत्यक्षसिद्धः । स च विषयभेदात् " पूर्वस्मात् प्रमाणान्तरम् ।
20
२६. ननु प्रतिषेधविकल्पस्याभावविषयत्वं तस्याजनकत्वेन प्रतिक्षिप्तम् । अत्र केचि - दाहु: - भावेऽयं नियमो जनकस्य प्रतिभासः । अभावस्त्वजनकोऽपि स्फुटप्रतिभासोत्पतेः प्रतिभासत इति कमुपालभेमहि १ । न च प्रतिभासापलापो युक्तः । अपि च भावेऽप्ययं न
१. खरूपे पर मु० । २. दोषानिवृत्तिः अ० ब० । ३. नीमयं न ह° मु० । ४. ग्यत्वदर्श क० ० ५. aise' मु० । ६. यथोक्तविशेषणतयाऽनुप मु० । ७. ननु भा मु० । ८. सर्वशस्य क० मु० । ९. सर्वस्य समु° क० । १०. ध्यं प्रसि० मु० । ११. न तु स्फुटे अ० ब० मु० । १२. प्रतिभासेत् मु० । १३. तद्धिल मु० । १४. असामर्थ्याच्च कुतः मु० । १५. चाभाव' मु० । १६. "तरासंसृष्टतयो' मु० । १७. कशान मु० । १८. खरूपेण तु मु० । १९. भवद्भिः भ० ब० । २०. मेदात् प्रमाणा' मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org