________________
कारिका १५० ]
'अभावप्रामाण्यवादः ।
春城
ततश्च घटस्य प्रध्वंसः कपालानां सत्ता । यदा च कुतश्चिन्निमित्तात् तेषां प्रध्वंसः तदा गत्य- . न्वराभावाद् घटस्याभावे प्रतिषिद्धे सत्तया भाव्यम् । न चैतद् दृष्टम् ।
१९. किं च यथा कपालानां सत्ता घटस्याकिंचित्कर्यपि प्रध्वंसः, तथा त्रैलोक्यस्यापि सा प्रसक्येत । ततःबैकविनाशे सर्वविनाशः । एकोत्पादे च सर्वोत्पादः । तथाहि - दुनः प्रागभावः क्षीरमात्रम्, तन्निवृष्ट्या तस्योत्पादात् । यथा च प्रागभावव्यावृत्तौ दन उत्पत्ति: : एवं पदार्थान्तरस्यापि । अथ येनैवासौ संबद्धः तस्यैवासौ प्रागभावः प्रध्वंसो वा । तेन न पूर्वोको दोषः । उक्तमत्र - 'तेन सह संबन्धे विशेषहेत्वभावः' । तत् प्रसव्यप्रतिषेधे पर्यवासरूपस्याभावाख्यस्य प्रमेयस्याभावात् कथं तत्प्रतिपत्तिः कृतमिसिङ्गाद् दृश्यते । तत्रैवभावाभावे प्रन्थकारैः पदार्थसंकराख्यो दोषः प्रतिपावितः -
।
1
" क्षीरे दधि भवेदेवम्" [ ठोकवा० अभा० ५]
इत्यादिना ।
२०. नैष दोषः । परात्मनाऽसत्त्वानभ्युपगमे पूर्वोकमसामंजस्यं प्रतिपादितम् । अथ श्रूयात् - स्यादयं दोषो यदि स एव भावः पररूपेणासन्न भवेत् किन्तु तस्य पररूपेणासस्वं धर्मो धर्मः । तथा च व्यात्मकः पदार्थोऽभ्युपगतो भवति । तदुक्तम् -
1
"स्वरूपपररूपाभ्यां नित्यं सदसदात्मके ।
वस्तुनि ज्ञायते " किंचित् रूपं कैचित्कदाचन ॥" [ ठोकवा• अभा० १२] न च तयोर्भावाभावलक्षणयोरंशंयोरनेन प्रकारेणाभेव उक्तो येनायं दोषः स्यात् किन्तु कथंचिद्भेवस्याप्यभ्युपगमात् । तदुक्तम्
"धर्मयोर्भेद इष्टो हि धर्म्यमेदेऽपि नः स्थिते ॥" [ श्लोकवा• अभा० २०]
२१. अत्रोक्तम् - "ऐकान्तिको भेदोऽस्तु तयोः, कथचिद्वा भेदस्तानविष्टः । तथा सति 20 भावस्य घटास्यस्याभावांशेने पदार्थान्तरात् पटाख्यात् यथाऽसंकीर्णता एवं भावाभावांशयोरपि । तत पटादिव भाषांशादपि तेनासंकीर्णेनाभावान्तरेण भाव्यम् । तस्मादप्यसंकीर्णताभ्युपगमेऽनवस्था प्रदर्शितैव । तन्नाभाषांशाभ्युपगमेनापि पदार्थान्तरौत् पदार्थान्तरस्य ब्यवृद्धिसिद्धेर्वस्त्वसंकरसिद्धिः । किन्तु स्वहेतुतः समुपजायमाना भावाः परस्परासंकीर्णस्वभावा एवोपजायन्ते । अन्यथा पूर्वोक्तदोषप्रसङ्गः । तदुक्तम् "सर्वभावाः स्वभाव 24 स्थितयो नात्मानं परेण मिभयन्ति" । तत् 'नास्तीति' व्यवहारमात्रम् । न त्वभावो नाम ज्ञानगम्यः कचिद्विद्यते । भाव एवैकदा अस्ति । अन्यदा स एव न । न तु तस्याभावो
१. स्यापि । तस्यैवा मु० क० । २. अत्रोकम् ब० मु० क० । ३. 'हेतुभावः सु० क० । ४. "येणे च पर्यु° क० । १५. तत्रैवमभावे सु० । ६. 'स्मनोऽस° मु० । ७. सवाभ्यु मु० क० । ८. कमासमंजस्य क० अ० ब० । ९. 'सद् भवेत् म० । 'णासन् भवेत क० । १०. किन्तु पर मु० क० । ११. तदा च क० । १२. शायते कैश्विद्रूपं किंचित्कदाचन लोकवा० । १३. 'लक्षणबोरनेन भ० । १४. धर्ममे मु० । १५. अथोकम् मु० क० । १६. एकान्तिको अ० क० मु० । १७. 'बांपि तेन पदा' मु० । १८. यथास्वसं ० । १९. भावांशयोरपि अ० । भावाश्रयैरपि मु० । २०. पटादिभाव मु० । २१. 'लाभ्यु' मु० क० । २२. र्थान्तरत्वात् क० । २३. व्यावृत्तेर्वस्व ब० कृ० । २४. सर्वे भाषाः सु० । २५. सर्वभावाः स्वरूपे पररूपेण क० । २६. अभाव अ-डि० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org