________________
६६
न्यायावतारसूत्रवार्तिकवृत्तौ
[ २. प्रत्यक्षपरि०
किन्तु स्वस्माद् मुद्रादेविरोधिनः प्रत्ययात् स्वयमेव न भवति । न च तथा भवनभावेन विरोधमपेक्षते तस्यान्यविरोधिजन्यत्वात् ।
६१४ अथोच्यते - यथा मुद्गरापेक्षयाऽसौ घटो न भवति तथा स्वसंवन्ध्यभावापेक्षया न भविष्यतीति किमत्रानुपपन्नम् ? । ननु एतदेव यत् तयोरसमानकालत्वम् । समानकालवे • हि तयोर्विरोधाविरोधौ चिन्त्येते न त्वेवमेव । अपि च, मुद्गरादिवत् तस्य विरोधकत्वाभ्युपगमेऽनवस्थाप्रसक्तिः । यथा मुद्गरो घटस्याभावजनकत्वात् तद्विरोधी एवमभावोऽपि अभा वान्तरजनकत्वेन, तदप्येवमित्यनवस्था । न चाऽकिंचित्करार्तुत्पन्नस्म पदार्थान्तरस्य तथात्वव्यपदेशः । तम भावाभावयोर्विरोधोऽपि संबन्धः ।
१५. किच, तस्य शास्त्रे कार्यकारणभावत्वेन स्थापितत्वात् मुद्गराद्यपेक्षा तस्याऽसमर्थ - 10 तरासमर्थतमोत्पादे । न तु तस्य तदपेक्षया निवृत्तिः, स्वयमेवैकक्षणस्थायित्वेन स्वहेतोरुत्यैनत्वात् । तेन मुद्द्ररायँपेक्ष्यासौ निवर्तते, स्वयमेव निवृत्तत्वात् । अन्यथा तनिवृत्ययोगात् । तस्मान भावाभावयोः कश्चित् संबन्धः । तदभावान तस्य प्रतिपत्तिः । न हि भाववदभावो देशाद्यनपेक्षः स्वतन्त्रः प्रत्ययविषयः । अतो यदस्ति कथंचिनिमित्तमात्रं तन प्रमाणगोचरः । यच प्रतीयते देशाद्यपेक्षम्, तनिरूप्यमाणं न तवतोऽस्तीति कथमभावः प्रमेयः स्यात् ? । 1 तद्भाव एवैकदाऽस्ति पश्चात् स एव न । न तु तस्य पश्चादभावः ।
1
१६. इतश्च नैं तस्य निरूप्यमाणं तस्वमस्ति । यतोऽसौ भवनधर्मा भवेद्, अन्यथा वा ? पूर्वस्मिन्पक्षे वस्तुनि एव अभाव इति नाम कृतं स्यात् । उत्तरस्मिन्नपि सर्वपदार्थानामसष्वप्रसङ्गः । सव्वाभ्युपगमे तैस्योनताद्यभावादवश्यंभाविनी नित्यता । ततश्च विरोधिनः सर्वदा सन्निधानाद्भावो जगति नाममात्रेणाप्युच्छियेत ।
१७. अपि च तस्यैकभावसंबन्धिता भवेत्, सर्वसंबन्धिता वा ? । पूर्वस्मिन्पक्षे विशेषो वक्तव्यो येन तस्यैवासौ नान्यस्येति । तन्निवृत्तिस्वभावत्वादेवं भविष्यतीति अपासम् अकिंचित्करत्वेन तस्याः । यथा शसौ तत्राकिंचित्कैर्यपि तस्य निवृत्तिः, तथा त्रैलोक्यस्यापि किमिति न भवति १ । तन्नैकभावसंबन्धी । नापि सर्वसंबंधी एकस्य विनाश उत्पाद वा सर्वस्य विनाशोत्पादप्रसंगात् । न चैवमस्ति । तन्नाभावस्य केनचित्संबन्धः । तस्मात् * कल्पनामात्रदर्शित एवाभावो न तत्त्वतः कश्चिदस्तीति स्थितम् ।
20
§ १८. अत्राहुः – एबमभावनिराकरणे पर्युदासँ एबैको नमर्थः स्यात् । तत्र च द्वयी गतिः । बस्त्वन्तरस्य सत्ता अन्यस्याभाव:, पदार्थान्तरत्वेन वा भावविलक्षणस्याभ्युपगतस्य १ । उत्तरस्मिन्पक्षे प्रसज्यप्रतिषेधे यो दोष उक्तः सोऽत्राप्यपरिहार्यः । न हि पदार्थान्तरोत्पचौ स्वरूपेणाप्रच्युतस्यै पूर्ववदुपलब्ध्याद्यकरणं, निवृत्तौ वा स्वयमेव तस्य निवृत्तेर्न" पदार्थान्तरो• त्पत्त्या किंचित् । तन्नोत्तरः पक्षः । नापि पूर्वः । तत्र स एव भावोऽन्यापेक्षयाऽभावः ।
१. तथा संबन्धाभावा मु० । २. नन्वेवमेव मु० । ३. लेन, न च तदप्ये क० मु० । ४. करादेरुत्प' मु० । ५. रुपपन्नत्वात् मु० क० । ६. 'लात् । मुद्र' मु० । ७. मुद्गरादिमपे मु० म० ब० । ८. प्रत्यक्षवि° ब० । ९. °षयः यस्मात् तस्य प्रतिपत्तिः नहि भाववदस्ति कथं मु० । १०. इतश्च तस्य ११. अभावस्य अ-टि० । १२. चित्कार्यपि मु० । १३ पर्युदासस्यैको मु० । १४. स्य भावस्य पूर्व० क० । १५. निवृत्तेर्वा पदा° मु० ।
मु० क० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org