________________
ख्यानि
कारिका १४.] अनुमानप्रामाण्यखापनम् । ६१. तदेवं विषयवैविध्यं व्यवस्थाप्येदानीं तयोः लक्षणमाह -दासमेत्यादि ।
दूरासनादिभेदेन प्रतिभासं भिनत्ति यत् । तत् प्रत्यक्षं परोक्षं तु ततोऽन्यद्वस्तु कीर्तितम् ॥१३॥
तनिमित्तं द्विधा मानं न त्रिधा नैकधा ततः। ६२. दूर चासनं च ते आदिर्यस्य खच्छावरणधनावरणादेः स तथा । दूरासन्नादिश्चासौ ।
भेदश्च तेन प्रतिभासं भिनत्ति । ज्ञानस्य स्पष्टास्पष्टत्वं यद्वस्तु करोति तत् प्रत्यक्षम् । विषयस्य तथाहि-प्रत्यक्षे प्रतिभासमानं दूरे घनावरणाच्छादितं चास्पष्टम् , निकटे लक्षणम् । स्वच्छापरणावृतं च स्पष्टम् । न चैवं धूमात् प्रतीयमानो बहिः, दूरासमा. विष्वप्येकरूपतया प्रतिभासनात् । अत एव आह - परोक्षं तु ततोऽन्यद्वस्तु कीर्तितम् पूर्वाचारिति ।
६३. इह प्रामाण्यं यद्यनिमित्तं स्यात् सर्वत्र भवेत् । न चार्थवत्त्वमन्तरेणान्यनिमित्तं प्रमाणसं- संभवति । न झनकेन ज्ञानमात्रेण कस्यचित् प्रयोजनं, हिताहितार्थ च तदुक्तम्। यमः अतो विषयवत्तया प्रामाण्यं व्याप्तम् । तदभावात् प्रत्यक्षपरोक्षाभ्यामन्यस्य न प्रामाण्यम् । अत आह-तमिमित्तं द्विधा मानं ने विधेति । विधेत्युपलक्षणं चतुर्धादेः । प्रयोगश्च-यदर्थवन भवति तन्म प्रमाणम् । यथोभयाभिमतं मिथ्यानानम् । नास्ति च प्रत्यक्ष परोक्षव्यतिरिक्तस्स झानस्यार्थवत्त्वमिति व्यापकानुपलब्धिः । इयं चाप्रे साधयिष्यते । -
६४. तथा, यत् यनिमित्तं तत् तस्मिन् सति भवत्येव । यथान्त्यबीजादिसामग्रीनिमितोअसुरः । अस्ति चानुमानादौ प्रामाण्यव्यवहारनिमित्तम्, अन्यथा प्रत्यक्षेऽपि तम्यवहारो न स्माद् अन्यनिमित्ताभावात् । अत आह-नैकवेति । ६५. तथा,
"प्रमाणेतरसामान्यस्थितेरन्यधियो गते।
प्रमाणान्तरसावा प्रतिषेधाच कस्यचित् ॥" अयं हि तार्किकचक्रचूडामणिमन्यश्चार्वाकोऽनुमानमङ्गीकुर्वाणोऽपि उन्मादानावबुध्यते पराकः । तथाहि-प्रत्यक्षेणाशेषप्रत्यक्षव्यक्तीरप्रतिपद्यमानोऽप्यर्थवत्त्वेन तासां साकल्येन प्रामाण्यं व्यवस्थापयभनुमानव्यक्तीनां प्रत्यक्षेणाग्रहणेऽपि प्रामाण्यनिमित्ताभावेन अप्रामाण्य व्यवस्थापयननुमानं प्रतिक्षिपन् कथं नोन्मतः । व्याहारादिलिजाचाप्रत्यक्षं पर प्रतिपय वदर्य शासं रचयन्कथमनुमानं नाभ्युपैति । तथा, अनुमानप्रामाण्यं विना 'नानुमानं प्रमाणमिति' खवचनमभ्युपगम्यानुमानप्रतिषेधं कुर्वाणः स्ववचसैव तिरस्क्रियते । परलोकादो प्रत्यक्षं न प्रवर्तते, तेन च तदभावं करोतीति महत्प्रमाणकौशलमस्य । प्रत्यक्षनिवृत्तेरभाष इति चेत; सा कि प्रत्यक्षा सती वराकी तदभावं प्रत्येति किं वा लिङ्गभूता ? । न तावत् ।
१. प्रतिभासन्ते शामु०। २. मैवं मु० क०। ३. विषयवत्ता अ-टि०। ४.न विषय 40 बक०। ५. 'न्धिश्चाने मु०। ६. मित्तं तस्मिन् मु०। ७. प्रत्यक्षं मु००। ८. परां प्रति म०प०। ९. अनुमानं प्रामाण्याविनामावि नानुमानं प्रमा० म०प० । अनुमाव: प्रामाण्यं विनानुमानं न प्रमा मु०। अनुमानप्रामाण्याविनानुनुमान प्रमाक०। १०. प्रतिबन्ध भ.ब। ११. 'माणकोशक०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org