________________
२. प्रत्यक्षपरिच्छेदः।
६१. एवं प्रमाणसामान्यलक्षणमभिधाय इदानीं संख्या-लक्षण-गोचर-फलविप्रतिपत्तिनिराकरणद्वारेण विशेषलक्षणमभिधातुकामो व्यक्तिभेदकथनमन्तरेण प्रतिव्यक्तिनियतं लक्षणं कथयितुं न शक्यत इति व्यक्तिभेदमेव तावत् कथयितुमाह-झात्रपेक्षमित्यादि ॥
ज्ञानपेक्षं प्रमेयस्य द्वैविध्यं न तु वास्तवम् ॥१२॥ ६२. न हि नीलपीतवद्वस्तुस्थित्या प्रमाणविषयस्य किंचिद्वैविध्यमस्ति । किन्तु ज्ञातारमपेक्षते-झोत्रपेक्षम् । तथाहि - तदेव वस्तु कस्यचित् प्रत्यक्षम् , कस्यचित् परोक्षमिति ।
६३. ननु इदं द्वैविध्यं केन प्रतीयते ? । न तावत् प्रत्यक्षेण, परोक्षे तस्याप्रवृत्तेः । प्रवृत्ती वा प्रत्यक्षतैव स्यात् । अकस्माद् धूमदर्शनात् परोक्षे वह्नौ प्रतीतिः प्रत्यक्षा, नानुमानम् । ॥ यतोऽनु व्याप्तिस्मरणात् मानम् अनुमानम् । न चेह तदस्ति । नैतदस्ति । यतोऽक्षासंबनिधन्यपि वस्तुनि यद्यक्ष ज्ञानं प्रवर्तेत. तदा सकलपरोक्षवस्तुविषयं प्रवर्तेत । न हि संनिहितासन्निहितयोः परोक्षत्वे विशेषोऽस्ति । अथ संबद्धधूमदर्शनात् नातिप्रसाः । तदसत् । यतः किं तदेव धूमदर्शनं परोक्षवह्निविषयं कल्प्यते ?, किं वा तजनितमन्यदिति । न ताव:
तदेव । न हि अन्यवस्तुपाहकमन्यस्य ग्राहकम् । न च तथाप्रतीतिरस्ति । न. हि तद्देशो"न्यदेशो वा वहिस्तदर्शने प्रतिभासते । ननूक्तम् 'संबद्धधूमदर्शनात् तदर्शनम्' इति । उक्तनिदम्, किन्त्वयुक्तम् । यतो यद्यप्रतीतसंबन्धोऽपि धूमो धूमध्वजप्रतीतिं जनयति किं न मालिकेरद्वीपायातस्यापि ? । अथ प्रतीतसंबन्धस्याभ्यासाद् अकस्मात् प्रतीतिः. संबन्धस्मृति मापेक्षते इत्युच्यते । तन्त्र, स्मरनेवान्तीनं संबन्ध तथा प्रत्येति, अन्यथा अंग्रहीतसंबन्धलास्य च को विशेषः । किन्न, प्रत्यक्षात् प्रतीती विशेषरूपस्य किं न प्रतीतिः । कथं न दूरादिति चेत्, न, तत्रापि व्यक्तिविशेषाप्रतीतावपि भाखरस्य रूपस्य प्रतिभासनात्, न च क्येहेति । तन परोक्षे प्रत्यक्षं प्रवर्तत इति । अन्यथा परोक्षमेव तन्त्र स्यात् । न घेतरेतराभयत्वम् । यतः स्वकारणात्साक्षात्कारि विज्ञानमुत्पंद्यमानं स्खविषयस्य प्रत्यक्षता व्यवस्थापयति । वन्न परोक्षे प्रत्यक्षस्य प्रवृत्तिरिति । नाप्यनुमानस्य प्रत्यक्षे । न च मानान्तरमस्ति । सद्भावे का विषयद्वैविध्यादित्यनर्थकमिति ।
१४.-अत्रोच्यते । प्रत्यक्ष हीदंतया स्वविषयं परिच्छिदद्यदेवं न भवति तत् सकलमेव परोक्षं व्यवस्थापयति । तथा परोक्षमप्यनिदन्तया खविषये प्रवर्तमानं ततोऽन्यत्प्रत्यक्षमिति व्यव. स्थापयति । न च परस्परमनन्वयात् कस्य द्वयप्रतीतिरिति वाच्यम् । यस्मान्न झानमात्मनः सर्वथा भिनम् । किन्तु आत्मैव कर्मक्षयोपशमादिन्द्रियद्वारेण लिनद्वारेण वा स्पष्टास्पष्टतया वस्तु प्रतिपद्यत इति कथमनन्वयः ? । [१२]
१.शानापेक्ष मु०। २. अथ कस्मा' क० ब०मु०। ३. संबद्धपि मु०। ४. पक्षले क०। ५. कल्पते अ० । कथ्यते मु०क०। ६. संबन्धस्य (पं० १७) च को विशेषः। (पं० १९)।क०। ७. अन्यथा गृहीत-२० मु०। ८. प्रत्यक्षाप्रतीते मु०।९. अन्यच्चापरोक०।१०. मुत्सायमा मु०। ११. भन्वयातू भु००। १२. ऋथमन्वयः मु००।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org