________________
10
15
25
५८
म्यायावतारसूत्र वार्तिकवृत्तौ
१७. एतेन भावनादयोऽपि वाक्यार्था निरसनीयाः ।
Jain Education International
[ १. सामान्यल० परि०
" इति वाक्यस्य ये वाच्यं नियोगं संप्रचक्षते । सरस्य ते तैक्ष्ण्यं नूनं व्यावर्णयन्त्यलम् ॥ विधेरपि विधेयत्वेऽनवस्यैव प्रसज्यते । स्वरूपवाचकत्वे तु न स्यादन्यविशिष्टता ॥ विधिवाक्यस्य कृच्छ्रेण विशेषपरिकल्पने । कैरथ भक्षितः काकैरध्यक्षे येन नेष्यते ॥ नकञ्चरबराहादिप्रत्यक्षेऽयक्षवीक्षितम् । विशेषमाशिपन्मूढः कथं नाध्यक्षवाधितः ॥ मनुष्यत्वे सतीत्येवं यदि हेतोर्विशेषणम् । मनुष्यत्वं तदा हेतुः पूर्वस्य स्यादहेतुता ॥ जैमिन्यादिर्विशेषज्ञस्तदा नैव भवेत्तव । मनोन्मेषस्य चोत्कर्षः कनु नाम व्यवस्थितः ॥ स्तोकस्तोकान्तरशत्वं येन पुंसः प्रसाध्यते । इन्द्रियान्तरविज्ञानं नेन्द्रियान्तरवस्तुनः ॥ ग्राहकं 'चेति यो दोषः सोऽतीन्द्रियदृशः कुतः । मथातीन्द्रियविज्ञानं न दृष्टं केनचित् कचित् ॥ विनेन्द्रियं च वैशद्यं कुतस्तस्य भविष्यति । सर्वदेशेषु कालेषु सर्वशो नेति यो" वदेत् ॥ तस्य सर्वज्ञता प्राप्ता सिद्धं चास्मत्समीहितम् । कामादिभावनाजातं विज्ञानं विशदं यदा ॥ तदेन्द्रियसमुत्थत्वं वैशद्ये नोपयोगवत् । अक्षाभितत्वमध्यक्षे व्युत्पतेरेव कारणम् ॥ निमित्तं तु पुनस्तस्य वस्तुसाक्षात्क्रिया मता । तदेवं जैनमध्यक्षं नानुमानेन बाधितम् ॥ न प्रमाणमभावास्यं बाधकं कुत एव तत् । सर्व संबन्धि वाध्यक्षं नेति तत्रेति यो घवेत् ॥ तस्य सर्वज्ञता प्राप्ता नैकस्यास्य निषेधकृत् । अनुमानं निषेधाय यच्येतास्य किंचन ॥ असिद्धायाश्रयासिद्धिः सिद्धौ हेतोर्विरुद्धता । अर्थ: "को नोपपद्येत विर्नोऽसर्वज्ञतां तव ॥ 'अपौरुषेयता नो चेन्नास्याः पूर्वे निषेधनात् । नोपमानस्य मानत्वं बाधकं कुत एव तत् ॥ विशेषाः पुंसि" दृश्यन्ते तेनादृष्टेषु का कथा ।"
" तथाहि । केचित् सकलशास्त्रज्ञाः केचिन किंचिद्विदन्ति । केचिचतुर्वेदपाठकाः । केचि गायत्रीमपि न पठन्ति । तत् कथमदृष्टेषु पुरुषेषु साम्यं सिद्धयेत् ? ।
१८. ननूकं 'दशहस्तान्तरम्' इत्यादि ।
१. मिचिदपि म० क० ब० ।- २. विधिबाधस्य मु० । ३. विशेषः परिकल्पये मु० । ४. कैरेव ० । कैरने मु० क० । ५. येनेष्यते क० । ६. प्रत्यक्षेष्यक्षवी मु० । ७. तु माने ब ० । 4. केवि सु० । ९ शेषु राध्रेषु मु० । १०. योऽवदत् मु० । ११. वाध्य० मु० । १२. गावास मु० । १५. पुंय सु० क० ।
१३. केनोप म० मु० क० ।
१४. बिना सर्व क० अ०
For Private & Personal Use Only
www.jainelibrary.org