________________
कारिका. १२.].
नियोगखण्डनम् ।
.६१३. किवासानेकोऽनेको वा ? । एकश्चेत् सर्वपुरुषाणां नियोगः प्रतीतः स्यात् । अथ विपर्ययात् न परस्येति चेत्; तवापि पक्षपातादिति समानम् । अनेकश्चेत् प्रतिपुरुषमसाधारणतथा न संकेतक्रिया स्यात् । किश्नं, शब्दप्रमाणैकसमधिगम्यतया सत्वे आकाशकुसुमस्यापि सस्वमासन्येत, विशेषो वा वक्तव्यः । न च शब्दप्रवृत्तिमात्रेण सत्वं युज्यते । अन्यथा दोराः पत्र (ण) गरीत्यादावपि सवैमासज्येत । तन कचित् स्वतत्रो नियोगो वाक्यार्थः प्रतीयते ।
१४. परतोऽपि किं तत्कार्यतया, सद्धर्मतया वा ? । न तावत् प्रथमः पक्षो यतः किमसौ या कार्यः, नियोज्यैकार्यः, शब्दकार्यो वा ? । न तावद्यागकार्य:, तस्य तदानीमनिष्पन्नत्वेनाभावात् । नापि पुरुषकार्यः, पुरुषस्य पूर्वमपि सद्भावेन तद्भावप्रसङ्गात् । नापि शब्दकार्यः, तदा हि न शब्दस्य वाच्यः स्यात्, कार्यत्वात् । न च वैदिकस्य शब्दस्य 10 नित्यत्वेन क्रमयौगपद्याभ्यां जनकत्वं युज्यते । तद्धर्मतायामपि किमसौ यागधर्मः, पुरुषधर्मः शब्दधर्मो वा ? । न तावद्यागधर्मः, तस्याविद्यमानत्वेन तद्धर्मस्याप्यविद्यमानत्वात् । अविद्यमानविषयैत्वे च वाक्यं निरालम्बनमपोहमात्रविषयमेव स्यात् । नापि पुरुषधर्मः, तथाहि पुरुषाव्यतिरिक्तः स्यात्, अव्यतिरिक्तो वा १ । अव्यतिरेके पुरुषस्य सर्वथा निष्पमत्वात् न नियोगरूपता स्यात् । नियोगो' हि अनुष्ठेयोऽर्थोऽभिधीयते । निष्पन्नस्य चानुष्ठाने ॥ मनुष्ठानविरतिर्भवेत् । अथ निष्पन्नस्यापि किंचिदनिष्पन्नमस्ति । तन, निष्पन्नानिष्पन्नयोर्विरोधेन तादात्म्याभावप्रसङ्गात् । अथ व्यतिरिक्तः; ननु यावदसौ तस्य धर्मः तावदन्यस्य किं न भवति ? । तस्यैवाधारशक्तिर्नान्यस्येति चेत् सापि किं नान्यत्रीऽऽधीयते । तां प्रति तस्यैवाधारशक्तिर्नान्यस्येत्यभ्युपगमेऽनवस्था । न च हेतुफलभावादन्यो व्यतिरेके" संबन्धोऽस्ति । तद्भावे च न समानकालता । असमानकाळयोर्न में धर्मधर्मिभावः । एतच शब्द- 20 धर्मवायामपि दूषणं वाच्यम् ।
1
३७
१५. किन, यद्यसौवस्ति; न पुरुषः प्रवर्तेत । न हि कश्चित् निष्पन्ननिष्पादनाय प्रवर्तते । अप्रवर्तकस्य च वाक्यस्य न प्रामाण्यमुपेयते । अथ नास्ति; तथापि न प्रामाण्यम्, अविद्यमानविषयत्वात् । तेने कश्चित् नियोगो वाक्यार्थतया प्रतीयते ।
१६. अथ शब्दाद 'यागादिविषये नियुक्तोऽहमनेन' इति प्रतीतेः कथमप्रतीतिः ? | तथाहि - नियोक्ता शब्दो वेदे पुरुषाभावात् । नियोज्यः पुरुषः । यागो विषयः । सकलं चैतत् प्रतीयते । तत् कथं प्रतीतावध्यप्रतीतिः १ । तदसत् । नेयमगृहीतसंकेतस्य प्रतीतिरुदेति । किं तर्हि ? । येन यागं कश्चित् कुर्बाण उपलब्धस्तस्य तत्रैव गृहीतसंकेतस्त्र पूर्वदृष्टानुसारेण विकल्पिका वुद्धिरुत्पद्यमाना अन्यापोहविषयैवोत्पद्यते । नातस्तस्वव्यवस्था ।
१. नियोगप्रतीतिः क० मु० । २. दारः मु० । ३. सत्त्वं समासज्येत मु० क० । ४. 'तंबा धर्मतवा मु० क० । ५. नियोगकार्यः मु० 1 ६. सद्भावे तद्भाव ब० । ७. विषय वाक्यं कु०
८. नियोगेन हि मु०९. छानेन निरविर्भ° अ० । १०.
।
१२. मयोर्न धर्म मु० क० १३. नियोगः अ-टि कवि मु० क० १६. कर्म न प्रतीतिः ० ० ।
त्राभिधीयते क० । ११. कसं ० ० ॥ १४. र्तते । प्रवक०सु०- १५ खाद १७. तदेव मु० ।
मा०८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org