________________
कारिका १२.] मीमांसकस्य सर्वज्ञवादे पूर्वपक्षः । एक भास्ते” इत्यादेविद्यमानत्वात् , इति चेत् ; न, स्तुतिमात्रत्वात् एतेषां न प्रामाण्य मिति ।
तथा चाह - "न च मन्त्रार्थवादानां तात्पर्यमवकल्पते । न चान्यार्थप्रधानस्तेस्तदस्तित्वं विधीयते ॥ मचानुवादितुं शक्यं पूर्वमन्यरबोधितम् । अनादिरागमस्यार्थीनच सर्वशो नादिमान् ॥" "कृत्रिमेण त्वसत्येन स कथं प्रतिपाद्यते ॥ अथ तद्वचनेनैव सर्वज्ञोऽन्यः प्रतीयते ॥ प्रकल्प्येत कथं सिद्धिरन्योन्याश्रययोस्तयोः । सर्वज्ञोक्ततया वाक्यं सत्यं तेन तदस्तिता॥ कथं तदुभयं सियेत् सिद्धमूलान्तरादृते । असर्वशप्रणीतात्तु वचनान्मूलवर्जितात् । सर्वशमवगच्छन्तः स्वचाक्यात् किम जानते?॥"
[तत्त्वसं० का. ३१८७-३१९.] "सर्वसदृशं किंचित् यदि पश्येम संप्रति ।
उपमानेन सर्वशं जानीयाम ततो वयम् ॥" [तत्त्वसं• का. ३२१५] "उपदेशो हि बुद्धादेर्धर्माधर्मादिगोचरः ।
अन्यथा नोपपद्येत सर्वशो यदि नाभवत् ॥" [ तत्त्वसं० का० ३२१७] "बुद्धादयो ह्यवेदशास्तेषां वेदादसंभवः ।
उपदेशः कृतोऽतस्तैर्व्यामोहादेव केवलात् ॥"[ तत्त्वसं० १२२४] "येऽपि मन्वादयः सिद्धाः प्राधान्येन त्रयीविदः ।
त्रयीविदाश्रितग्रन्थास्ते वेदप्रभवोक्तयः॥" [ तत्त्वसं० ३२२८ ] तदेवम् -
"प्रमाणपश्चकं यत्र वस्तुरूपे न जायते ।
वस्तुसत्तावबोधार्थ तत्राभावप्रमाणता ॥" [ श्लोक• अभाव. १] ६६. तथोपमानबाधिता । तथा हि -
"नरान् दृष्ट्वा त्वसर्वशान् सर्वानेवाधुनातनान् ।
सत्सादृश्योपमानेन शेषासर्वशसाधनम् ॥" [तत्त्वसं० का०३२१६] इति । तदेवमनुमानाभावप्रमाणोपमानबाधितेयं प्रतिज्ञेति । ६७. भवतु वा, तथापि निष्फला । तथा हि
"समस्तावयवव्यक्तिविस्तरज्ञानसाधनम् । काकदन्तपरीक्षावत् क्रियमाणमनर्थकम् ॥ यथा च चक्षुषा सर्वान् भावान् वेत्तीति निष्फलम् । सर्वप्रत्यक्षदर्शित्वप्रतिज्ञाप्यफला तथा ॥ खधर्माधर्ममात्रज्ञसाधनप्रतिषेधयोः। तत्प्रणीतागमग्राह्य हेयत्वे हि प्रसिद्ध्यतः॥
१. जानीयामस्ततो क० मु०। २. सर्वज्ञसशः कश्चित् यदि दृश्येत सम्प्रति । तदा गम्येत सर्वज्ञसद्भाव उपमाबलात् ॥ तस्वसं०। ३. ये हि तावदवेद तत्वसं०। ४. सादृश्यस्योपमा तस्वसं०। ५. साधने अ० ब०। ६. षेधतः मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org