________________
कारिका १२.]
सर्वसिद्धिः। ६२४. अथ कथं परलोकशरीराच्छरीरान्तरसंचारः १ । वृद्धाविशरीराषस्थासंचारवत् । जथैकोपादानमावेन तदेकत्वात् न शरीरान्तरम् । पश्वाविशरीरं तु नैवम् । तदपि खनान्तिकशरीरसंचारदर्शनाद् अनैकान्तिकम् । किं च, शरीरान्तरे मनःसंक्रान्तिः केयबित् बदाहकत्वेनैव, नान्यथा । सा चेह पश्वादिशरीरेष्वप्युपलभ्यते । तत् कथं न शरीरान्तरसंचारोपलब्धिः। अथ प्रायतामात्रे संचारे परशरीरवत् स्वशरीरक्षतावपि न व्याकुलतादयः स्युः।। तदप्यसत् । पररकादिदर्शनेऽपि केषांचिद् व्याकुलितोपलब्धेरात्मशरीरक्षतावपि केषांचिदभावात् । तदनेकजन्मपरंपरावासनादाादात्मीयप्रहसद्भावे व्याकुलतादयः प्रवर्तन्त इति ।
६२५. अथ भवतु कार्यादतीतपरलोकानुमानम् , भाविनस्तु कथं ?, तदर्था च दानादिक्रियेष्यते ? । तदपि यत्किंचित् । सिद्धे हि' कार्यकारणभावे, यथा कार्यात् कारणानुमानम् , तथाऽविकलकारणात् कार्यस्यापि इत्यनेकान्तिकत्वाविदूषणं नैव संभवति ।
"कार्यकारणसद्भावात् चैतन्येनान्यचेतसः" इति । "एवं क्षणिकपर्यायपरिणामिनि संस्थिते।। गुणाः प्रकर्षमायान्ति कालेन सहकारिणा" ॥ [११]
६१. इति निगदितमेतत् केवलज्ञानहेतुः, कुशलमखिलबन्धो ज्ञानचारित्रदृष्टिः ।
सकलमलविहीनं साधनं तस्य सिद्धौ, कथयितुमिदमन्यद् वार्तिकस्साह कर्ता ॥ ॥
अन्त्यसामध्यवद्धेतुरित्यादि
अन्त्यसामध्यवद्धतुः संपूर्ण कार्यकृत् सदा ॥ ११ ॥
ज्योतिः साक्षात्कृतिः कश्चित् संपूर्णस्तत्ववेदने । ६२. हेतुः कारणकलापः । संपूर्ण इति अविकलः । सदेत्यवश्यमेव कार्यकारी । अन्यथा सर्व कार्योत्पत्तिर्न कदाचित् स्यात् । अन्त्यसामग्र्यवदिति व्याप्तिविषयोपदर्शनम् ।। कश्चिद विवादाभ्यासितः तत्त्वज्ञानोत्पत्तौ ग्रहोपरागाविसाक्षात्कारित्वादविकलकारण इति । प्रयोगश्च- यदविकलकारणं तदवश्यमेव कार्यमुत्पादयति । यथा अन्या कारणसामग्री । अविकलकारणश्च तत्त्वज्ञानोत्पत्तौ अतीन्द्रियमहोपरागादिसाक्षाद्रष्टा तज्जातीयेष्वतीन्द्रियेषु जीवादिषु कश्चिदिति । हेतुमेव समर्थयितुमाह-यस्य यज्जातीयाः पदार्थाः प्रत्यक्षाः, तस्सासत्यावरणे तेऽपि प्रत्यक्षाः । यथा घटसमानजातीयभूतलप्रत्यक्षत्वे घटः । प्रत्यक्षाय कल.. चिदतीन्द्रियजीवाविपदार्थसजातीयमहोपरागादयो भावा इति । न तावदयमसिद्धो हेतुः। यतो यो यद्विषयानुपदेशीलिङ्गाविसंवादिवचनरचनानुक्रमकर्ता स तत्साक्षात्कारी । यथास्मदादिरात्मीयानुभववचनरचनानुक्रमकर्ता । ग्रहोपरागादिशौखकर्ता व स, तस्मात् साक्षात्कारीति । न चापौरुषेयत्वेनासिद्धत्वमभिधानीयम् , तस्य पूर्वमेव निरस्तत्वात् ।।
१. तदपि खाग्निकशरीर मु०। २. क्रान्तिः तद्रा अ० ब०। ३. °दयः । तद अ००। ४. तदानेक क० मु०। ५. सिद्धे कार्य अ० ब०। ६. कारिवाविक क० मु०। ७. कारणमिति क.मु०। ८. कारणश्चातीन्द्रिक० मु०। ९. तज्जातीयेषु जीवा क०। १०. तापदयं सिमु.। ११. देशलिक०। १२. ग्रहोपरागादिसाक्षात्कारी तत्शास्त्रकर्तेति नचा क० मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org