________________
न्यायावतारसूत्रवार्तिकवृत्तौ [१. सामान्य परि० ६१८. तस्य स्थितिकरणात् तदाधार इति चेत्, किमसावुत्पन्ना सती स्थाप्यस्य भवति, भन्यथा वा । अनुत्पना असत्त्वात् न तस्य । उत्पन्नाप्यन्यस्मात् कथं भावस्य, तादात्म्य. पदुत्पत्तिसंबन्धाभावात् ।। अथ तत एवोत्पद्यते नान्यतः । तथा सति तत्कार्या स्यात् नाभयकार्या । तत्र चोकं दूषणम् । तथा हि-स्थाप्येन स्थितिः क्रियते नाश्रयेण । अथ स्थिते. • स्थितिः क्रियते आश्रयेण वर्हि अनवस्था स्वात् ।
६१९. यदि चानयो देहा, तदा यस्य स्थितिकारणमस्ति तस्य न विनाशः स्यात् । अय वेस्थापके सत्सपि नाशहेतो क्षः । न नाशो नामाऽन्य एक भावात् । व्यतिरेके च नाश एव तेन फतः स्यात्, न भावः । ततोऽनाशात् स्वयमेवास्त इति किं स्थितिहेतुना १ । यदि च नाशहेतो शो यावनाशको नायाति तावत् स्वयमेवात इति किं स्थितिहेतुना ? । अथ विना"शकात् पूर्व स्थापकेन विनाशप्रतिबन्धः क्रियते । ननु सोऽपि विनाशप्रतिवन्धोऽन्यो विनाश्यात् । ततश्च विनाश्यस्य न किंचिदिति विनश्येत् । अथानन्यः, तर्हि विनाश्या स्थापकेन क्रियते न स्थितिः । अथ प्रतिक्षणं विनश्वरः स्थापकादन्यया भवति, तस्यापि विनाशोऽहेतुक इति स एव प्रतिक्षणं विनाशः । स च अन्यथा स्थापकादुत्पन्न इति कौरणमेव स्यात्, न
खापकः। .६२०. अब पततो धारणोपलब्धेः कथं न स्थापकः १ । न पततो धारणं, यस्य च
पारणं न तस्य पतनम् , पतनापतनयोः परस्परविरोधात् । पूर्व पतनं पश्चादपतनमिति चेत्, नै सहि यस पतनं तस्य धारणम् , प्रत्यक्षेणैकत्वाप्रतिपत्तेः । न कोऽवस्थाता पवनेवरल्याप्युपलभ्यते।
६२१. स एव पतमवतिष्ठत इति एकत्वाभिमानादवस्थातुः प्रतीतिरिति चेत्, न, प्रत्यमिजहानसाभिमानमात्रत्वात् । ततः प्रतिक्षणविनाशिनामपरापरदेशोत्पादवतामुपादानदेशोत्सतिरेवं भाषारसमागमकतेति हेतुरेव विशिष्टावस्थाया आधार उच्यते ।
६२२. किं च, गुरुणो द्रव्यस्य पततः पातप्रतिबन्धात् स्थापकः स्यादपि, निष्क्रियाणां तु गुणसामान्यकर्मणां किमाधारेण । चैतन्यं च सामान्यं गुणः कर्म वा? तब सर्वथा निष्क्रियमिति नाऽधारेणास्य किंचित् । अतोऽनाघेयस्य चेतसो नाधारविनाशेन विनाशः । कियत्कालं तु सहस्थानमामग्निताम्रद्रवत्ववदित्युक्तम् । तन्न कायाश्रितं चेतः ।
६२३. नापि कायात्मकम् । यतः परमाणुसंघातमात्रमेव शरीरम् । तत्तादात्म्ये प्रत्येक सकलपरमाणुसंवेदनप्रसङ्ग स्यात् । न च अवयव्येको विद्यते तत्सद्भावेऽपि वा श्यामताविषदन्येन चैतन्यवेदनं स्यात् । अन्तःस्प्रष्टव्यरूपत्वानेति चेत् ; न, व्रणं स्पृशतोऽन्यस्यापि तवेदनावेदनं स्यात् । तच्छरीरे गृह्यमाणे चैतन्याग्रहणाद् विरुद्धधर्माभ्यासेन ने तादात्म्यम् । • तम देहकार्य देहगुणो देहात्मकं वा चैतन्यं किन्तु जन्मान्तरचैतन्योपादानमेव । जन्मा. दिजन्यचैतन्यपर्यावं जीवद्रव्यमिति ।
१. स्थाप्या भवति मु०। २.भथ स्थापके क०म०। ३. विनाशस्य अ० ब०। ४. स्थापकेम न स्थितिः म०प०। ५. करण मु०। ६. चेत् तर्हि मु०। ७. शोत्पत्तिराधार क०मु०। ८. मात्रकममिक० मु०। ९. ध्यासेन तादा मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org