________________
कारिका ७.]
वाक्यविचारः ।
३७
वयवं वा ? । तेऽप्यवयवाः प्रत्येकं सार्थकाः स्युः, निरर्थका वा ? । सार्थकत्वे एकावयव - प्रतीतावपि सकलवाक्यार्थप्रतीतिः प्रसज्येत । निरर्थकत्वे सकलावयवप्रतीतावपि न वाक्यार्थप्रतीतिः स्यात् । नापि निरवयवम् । तद्धि वर्णैः समस्तैर्वा प्रत्याय्यते व्यस्तैर्वा १ । न तावत् समस्तैः, उच्चरितप्रध्वंसिनां वर्णानां सामस्त्यासंभवात् । नापि व्यस्तैः, -प्रथमवर्णश्रवकाल एव सकलस्य वाक्यस्य प्रतीतेः शेषवर्णोचारणस्य वैयर्थ्यप्रसंगात् ।
t
४०. अथ समस्तवर्णसंस्कारवत्या अन्त्यवर्णबुद्ध्या वाक्यावधारणमिष्यते । नतु किं तत् स्मरणं उताभ्यक्षम् ? । न तावत् स्मरणम्, विद्यमानान्त्यवर्णग्राहकत्वात् । नापि प्रत्यक्षम्, अविद्यमानपूर्ववर्ण विषयत्वात् । अथ पूर्ववर्णस्मरणान्त्यवर्णग्रहणाभ्यामेकं विकल्पज्ञानं जन्यते तेन वाक्यावधारणम् । नैन्वेवं कल्पनाज्ञान विषयत्वे काल्पनिकत्वं वाक्येऽभ्युपगतं स्यात् । न वस्तुरूपता । अनेकवर्णानां चैकवाक्यप्रतिपादनेऽर्थे क एषां व्याघातः १, येनैकं ॥ वाक्यं वर्णव्यतिरिक्तम् अर्थप्रतिपादकं कल्प्येत ।
1
४१. कल्प्यमानं वा तदनित्यं स्यात् नित्यं वा ? । यद्यनित्यम्, करणव्यापारान्वय व्यतिरेकानुविधानात् पौरुषेयमेव स्यात् । तदुक्तम्
V "अनित्यं यज्ञसंभूतं पौरुषेयं कथं न तत् ।" [ प्रमाणवा० ३.२५१] अथ नित्यम्, सामर्थ्यतिरस्कारांयोगात् सर्वदाऽर्थप्रतीतिं जनयेत् । आवृतत्वामेति ॥ चेत्; न, नित्यस्यावरणायोगात् । किंचित् कुर्वाणं हि आवरणं स्यात् । न च नित्यस्य किंचित् कर्तुं पार्यते । करणे वाऽनित्यताप्रसक्तेः । यदि च ताल्वादिव्यापारेऽपि कदाचिदनुपलब्धिafter स्यात् तदा व्यधर्मानुविधानात् किंचिदावरणमपि कल्प्येते । व्ययस्य हि घटादेरेष धर्मो यदुत प्रदीपादौ व्यञ्जके सति न सर्वदोपलब्धिः । अन्यथा तास्वादिव्यापारे नियमेनोपलभ्यमानस्य शब्दस्य व्यङ्ग्यत्वपरिकल्पने घटस्यापि कुलालादिव्यङ्ग्यता प्रसंग: । " तन किंचित् वाक्यम् ।
४२. वर्णानुपूर्वी वाक्यमिति चेत्; ननु साप्यानुपूर्वी वर्णेभ्यो भिन्ना स्यात्, अमिन्ना वा ? । न तावद्भिन्ना भिन्नवाक्यदूषणेनैव तस्या निरस्तत्वात् । नाप्यभिन्ना, यतो वर्णबाहुल्यानभ्युपगमात् । तद्रूपायां चानुपूर्व्यामभिरित्येव स्यात्, न गगनमिति ।
४३. किन - तेऽपि वर्णा नित्याः स्युः, अनित्या वा ? । अनित्यत्वे तेषां पौरुषेयत्वमेव स्यात् । नित्यत्वे व्यापिनो स्युः अव्यापिनो वा ? । अव्यापित्वे न सर्वत्रोपलम्भः स्यात् । तथा हि - कान्यकुब्ज देशव्यवस्थितस्य शब्दस्य न मान्यखेटदेशव्यवस्थैः पुंभिरुपलम्भः स्यात् । अप्राप्यकारित्वात् श्रोत्रस्य अदोष इति चेत्; न, तत्रापि योग्यतापेक्षणात् अयस्कान्तीयै:कर्षणवत् । व्यापित्वाभ्युपगमे नानुपूर्वी स्यात् । तथा हि-सा देशकृता वा स्यात् यथा पिपी - लिकानां पङ्को, कालकृता वा स्यात् यथा बीजांकुरादीनाम् । तत्र न तावत् देशकृता, अन्योऽन्यदेशपरिहारेण वृत्तिर्हि देशपौर्वापर्यम् । तत् सर्वस्य सर्वत्र तुल्यदेशत्वात् वर्णेषु न
१. तीतिः प्रसज्येत । नापि मु० । २. ननु तत् अ० । ३. नत्वेवं क० । ५. यक्ष मु० क० । ६. कथं नु तत् क० । कथं तु तत् मु० । ७. ८. जनयेत् न नित्य° अ० । ९ तदा व्याप्यधर्मा मु० । १०. कल्पेत अ० । १२. कन्य क० अ० ब० । १३. न्तापकर्षण' अ० ।
Jain Education International
For Private & Personal Use Only
४. अर्थे प्र° क० अ० । तिरस्कारयोगात् क० । ११. "पिनो वा स्युः क०
www.jainelibrary.org