________________
३६
न्यायावतारसूत्रवार्तिकवृत्तौ
[ १. सामान्यल० परि०
मानम् ; यावनानुमानं तावन्न संबन्धग्रहणमिति । अपरेणानुमानेन संबन्धग्रहणेऽनवस्था । तत्र प्रमाणप्रतीतेः संबन्धः ।
३६. कि- असौ परिकल्प्यमानः तादात्म्यलक्षणो वा स्यात्, तदुत्पत्तिलक्षणः, संयोगलक्षणः, समबायलक्षणः, विषयविषयिलक्षणो वा स्यात् ? । तत्र न तावत् तादात्म्यलक्षणः • संभवत्यप्रतीतेः । अन्यथा क्षुरिकामोदकादिशब्दोचारणे' मुखपाटनपूरणादिरुपलभ्येत । न चोपलभ्यते । तत्र प्रथमः । नापि द्वितीयः, यतः शब्देन वा अर्थो जन्यते, अर्थेन वा शब्द: ? । प्रथमपक्षे न कश्चिदपरिपूर्णेच्छः स्यात् । द्वितीयेऽपि अर्थेषु यथास्वं पुरुषबुद्धिनिरपेक्षाणां शब्दानां श्रवणं स्यात् । न चार्थमात्रात् पुरुषबुद्धिनिरपेक्षाः शब्दा उत्पद्यन्ते । तथा हि- अर्थदर्शनम्, ततः तत्प्रतिपादनाभिप्रायः, ततो विवक्षा, ततः स्थानकरणाभिघातः, 10 ततः शब्दनिष्पत्तिरिति नार्थजन्यता शब्दानाम् । न च नित्यत्वेनाभ्युपगतानां शब्दानामयं प्रकारः संभवति । तन तदुत्पत्तिलक्षणोऽपि । नापि संयोगलक्षणः, यतो मुखे शब्दस्योपलब्धि:, भूमावर्थस्य । नापि समवायलक्षणः, अयुतसिद्धानामाधार्याधारभूतानामेव हि वर्ण्यते । न च शब्दार्थयोरयुतसिद्धिराधाराधेयभावो वा घटते । तन्न समवायोऽपि । विषयविषयभावोऽपि बाध्यवाचकभाव एव । स च सति संबन्धे नित्ये सांकेतिके वा स्यात् न पुनरसति संबन्धे । अन्यथा सर्वार्थर्वाध्यवाचकभावः स्यात् । तम कश्चित वास्तवः संबन्धो यस्यापौरुषेयता परिकरूप्येत ।
३७. नापि वर्णा अपौरुषेयाः, तेषां लोक-वेदयोर्भेदानभ्युपगमात् । तदपौरुषेयत्वसाधने वर्णापौरुषेन किंचिमा पौरुषेयं स्यात् । ततो मिध्याशब्दानामप्यपौरुषेयत्वे निष्फलैबापौरयत्वनिषेधः षेयता । भेदाभ्युपगमे वाऽभ्युपेतहानिः । प्रत्यभिज्ञाया अप्रामाण्यं च स्यात् । तथा हि20 वेदगकारं श्रुत्वा पुंसः स एव गकारो यो मया लौकिकेषु वाक्येषूपलब्ध:' इति प्रत्यभिज्ञानोत्पत्तेः । तदप्रामाण्ये सर्वत्र प्रत्यभिज्ञायामनाश्वास इति न वर्णानामपौरुषेयता भवतां श्रेयस्करीति ।
९३८, नापि वाक्यम् । यतस्तद् वर्णेभ्यो भिन्नं वा स्यादभिनं वा १ । अभेदे वाक्यमेव स्यात्, वर्णा एव वा स्युः । भेदेऽपि तददृश्यं वा स्यात्, दृश्यं वा ? । अह
वाक्यवि
चारः ।
* श्यत्वे न ततोऽर्थप्रतिपत्तिः स्यात् । न प्रतीताद् वाक्यादर्थप्रतीतिः सांघीयसी । अप्रतीवाद - पर्थप्रतीतौ न प्रतीतेर्विरामः स्यात् । नापि दृश्यम्, अनुपलम्भात् । न हि देवदत्तादिवर्णव्यतिरिक्तं किञ्चिद्वाक्यमुपलभामहे ।
६३९. किन - तद्वाक्यं वर्णद्वारेण वा प्रतीयेत, स्वातत्र्येण वा ? । न तावत् स्वातच्येण, न हि अवर्णश्रावणो वाक्यप्रतीतिरस्ति । वर्णैरपि प्रतीयमानं वाक्यं सावयवं स्यात्, अन
१. ' प्रतीतस मु० क० । २. णः, तदुत्प° मु० । ३. 'रणात् मुख० क० । ४. निरपेक्षात् श ५. क्षणो नापि क० मु० । ६. हि वर्ण्य क० मु० । ७. भावो घटते क० मु० । ८. सांकेतिके च स्यात् अ० ।
ᄋᄋᄋ|
९. सर्वार्थे वाच्य मु० । १०. वाऽभिनं क० ।
११. दृष्टं वा मु० ।
१२. न हि अनवर्ण अ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org