________________
कारिका 4.]
शक्तिविचारः ।
२७
अबाधित
प्रमा
६२८. अबाधितत्वं पुनः सकलोपाधिविशुद्धमिहोपपद्यमानमदृष्टमपि व्याप्नोतीति युक्तम् । 'वाह'-: -- यथा मात्रात्यासन्नातिदूराशुभ्रमणादिको विषयदोषः, नापि चलनादिरूपः आधारदोषः, न तिमिराद्युपहवोऽक्षाणाम्, नापि मनसो मिद्धायुपहतत्वलक्षणम् । मिति कारण गुणपर्यालोचनादबाधितत्वं निश्चीयते; तथा 'नाऽयं शाखा रागद्वेषीपहतः, नाप्यक्ष:' इति आप्तगुणपर्यालोचनात् श्रुतज्ञानस्याप्यवाधितत्वं निश्चित्यासंबादेऽपि प्रेक्षावन्तः प्रवर्तन्त इति युक्तम् ।
६ २९. कारणगुणनिश्चयच कचिदबाधितत्वेन । न चेतरेतराश्रयत्वम् व्यक्तिभेदात्, अनादित्वाच संसारस्य । यदप्यभ्यधायि - 'इन्द्रियाणामतीन्द्रियत्वात् वैगुणानां कथं प्रत्यक्षादिना प्रहणम्' इति तदेतद् दोषेष्वपि समानम् । तेऽपि हि न प्रत्यक्षादिना प्रतीयन्ते । ere मिथ्यात्वात् तनिश्चयः । सम्यक्त्वाद् गुणानां किं न भवति १ ।
६३०. अथ यैथा घटस्योदकाहरणलक्षणा शक्तिः सुत्पिण्डात् न भवति तच्छतिविकलस्वात् तस्य; तथा अर्थतथात्व प्रकाशनशक्तिः प्रामाण्यरूपा कारणेषु असती, भवन्ती उत्पत्तौ स्वत इत्युच्यते । किमयथार्थप्रकाशनशक्तिः कारणेषु अस्ति नैं वा ? । न इति चेत्, कथमप्रामाण्यं परवः ।
६३१. अपि च- सा शक्तिः शक्तिमतो भिन्ना, किं वाऽभिन्ना, अथ भिन्नाभिन्ना, 18 शक्तिविअयोभयनिषेधः ९ । यद्यभिन्ना अप्रामाण्यशक्तिरपि शक्तिमत्स्वरूपवत् न दोषेभ्यः स्यात् । अथ भिन्ना तर्हि प्रामाण्यजननशक्तिरपि कारणेभ्यो भिन्ना । न चात्र व्यवस्थितविभाषा । अथ सा नास्ति कारणेषु; अशक्तादुत्पद्यमानं प्रामाण्यं सर्वस्मादुत्पद्येत । अहेतुकं वा स्यात् । ततश्च सर्वत्र स्यात् । न वा कचिदिति ।
चारः
९३२. किन-सा शक्तिमति संबद्ध किं बाऽसंबद्धा १ । यद्यसंबद्धा, न तस्य सा । अथ 10 संबद्धा; तदा कार्यकारणभावान्नापरो व्यतिरिक्तस्य संबन्धः । तत्र यदि शक्तिमता शक्तिजेम्यते इति पक्षः; तदा किं तेन शक्तेन जन्यते, किंवाऽशकेन ? | यद्यशक्तेन तदाऽन्येनापि जन्येत । अथ शक्तेन तदा तत्रापि यदि सा शक्तिरभिन्ना तदा पूर्वापि तथैवास्तु । किं areपनया ? । अथ भिन्ना तदा तदेव वाच्यम्, तदेवोत्तरमित्यनवस्था । संबन्धान्तरं च 1 निषेत्स्यमानमास्त इत्यास्ताम् । व्यतिरेकाव्यतिरेके च प्रामाण्यं स्वतः परतश्च स्वात् । उभय- " निषेधस्तु वस्तुनो नोपपद्यत इति । न हि तदेव तदानीमेव विधीयते में निषिध्यते चेति युक्तम् । तनोत्पचौ स्वतः प्रामाण्यम् । स्वकार्यपरिच्छेदे तु प्रवर्तमानमप्रमाण्यमपि न किचित् परमपेक्षत इति स्वतः स्यात् । अस्वसंवेद्नवाविनस्तु ज्ञानस्वरूपमपि न स्वतः सिद्धं कुत एव तद्रवं प्रामाण्यमिति ? ।
६३३. यथोक्तम्- 'किं बाध्यम्, किं बाधकम्, कम तदभावः' इति तत्रासत्प्रकाशन - सामर्थ्यं मिध्यात्वं बाध्यम् । तथाहि - ज्ञानस्य सदर्थप्रकाशनशक्तिरिब असदर्थप्रकाशनशक्ति
१. ष्टं व्याक० मु० । २. तथाहि नात्रा° अ० । ३. लात् गुणानां मु० । ४. दोषेऽपि य० । ५. अथ घट° सु० क० । ६. अस्ति नेति चेत् भ० ब० क० । ७. दुत्पद्यते अ० । ८. संबद्धाऽसंबद्धा था। यद्य मु० । ९. तदापि यदि सु० क० । १०. मेवे ब० अ० । ११. वस्तु नोपप० ब० । १२. नोपपद्येत क० । १३. वे निषि क० मु० । १४. मप्रमाणमपि अ० क०सु० ।
Jain Education International
10
For Private & Personal Use Only
www.jainelibrary.org