________________
कारिका ५.] प्रामाण्यनिश्चयोपायचर्चा।
"अविशेषेपि बाह्यस्य विशेषात् प्रीतितापयोः। भावनाया विशेषेण नार्थरूपाः सुखादयः॥ प्रशादिवद्विशिष्यन्ते भावनाबलभाषतः। नार्थेन जनिताकारो बुद्धौ भोगस्तदात्मनः॥ नियतविषयत्वेन शामाकारो निवर्तितः। मर्थान्धयातिरेकेण व्यांतो नीलादिभासवत् ॥ मिनाभः सितदुःखादिरभिन्ने बुद्धिवेदने । अभिनामे विभिन्ने धेनेदाभेदी किमायो॥ नानात्वैकत्वलोपः स्यादेवं सति जगत्रये ।
तसादन्तर्भवा एते चेतनाति साधितम् ॥" वर्तेः स्थितमेतत् स्वसंवेदनं विज्ञानमिति ॥ [५]
६१. अथ प्रमाणात् प्रवर्तमानाः किं निश्चितप्रामाण्यात् प्रवर्तन्ते, किं वाऽनिश्चितप्रामाप्रामाम्यनि- ण्यादिति ? । यदि अनिश्चितप्रामाण्यात् किं प्रमाणपरीक्षया । अय निश्चितबयोपायव प्रामाण्यात् ; तनिश्चयः किं संवादज्ञानात्, किं वा कारणगुणज्ञानादिति । प्रथमपक्षे संवादज्ञानं "किं सहकारिकारणं सत् तनिश्चयमुत्पादयति, किं वा प्राहकं । सविति ? । यदि सहकारिकारणम् ; तन्नोपपद्यते, भिन्नकालत्वात् । प्राहकमपि कि प्रत्यक्ष सत्, किं वा लिगभूतमिति ? । न तावत् प्रत्यक्षं सत्, प्रवर्तकस्य सुदूरं नष्टत्वात् । अपि च-इन्द्रियजं प्रत्यक्षं ज्ञानान्तरस्वरूपमपि न प्रतिपद्यते । कुत एव तत्प्रामाण्यमिति । लिगभूतमपि नास्ति, यतो लिङ्गं गृहीतसंबन्धं ज्ञापयति । संबन्धमहो" न ताभ्याम्, परस्परस्याग्रहणात् । नापि ज्ञानान्तरेण तत्स्वरूपाग्रहणादेव ।
६२. अथानादित्वात् संसारस्य संवादकज्ञाननिबन्धनं प्रवर्तकस्य प्रामाण्यमनेकशो विनिश्चित्य संदेहभाजि प्रवर्तकज्ञाने संवादकज्ञानात् निश्चय इति । ननु अत्र चक्रकं दूषणम् । तथाहि - निश्चितप्रामाण्यात् प्रवृत्तिः । प्रवृत्तौ संवादज्ञानम् । ततः प्रामाण्यनिश्चय इति ।
६३. किञ्च- अनादौ संसारे निरात्मवादिनः(ना) केन संबन्धो गृह्यते ? । अथ अस्त्यनन्तवासनाऽऽलयभूतम् आलयविज्ञानं रागादिबाह्याहङ्कारास्पदभूतम् , तेनेति । ननु निरन्वय-. क्षनिकविना भेदाविशेषात् विभिन्नसंतानवासनासंक्रान्तिरपि कस्मान्न भवति । अथ
"यमिन्नेव हि संताने आहिता कर्मवासना।
फलं तत्रैव संधत्ते कर्पासे रक्तता यथा ॥" इत्यभिधीयते । न, संतानिव्यतिरिक्तस्य संतानस्याभावात् । अथ अस्ति कार्यकारणप्रवाहरूपः संतानः । न, कार्यकारणभावस्य निरन्बयक्षणिकपक्षे निषेत्स्यमानत्वाविति ।. .
६४. किच-संवादज्ञानमपि यदि संवादज्ञानापेक्षया प्रमाणम् । तदा तदपि तदन्यापेशयेत्यनवस्था । अथ स्वतः तदा पूर्वमपि तथैवास्तु, किं संवादज्ञानेन ?।
१. व्याप्ता मु०क०। २. रमिनो अ० ब०। ३. कलयोयः स्यामु०। ४. तत् मु०। ५. दनं ज्ञान मु०क०। ६. यदि निश्चित° अ०। ७. 'ज्ञानं सह° मु०। ८. ग्रहणं मु००। ९.शानान्तरे खमु०। १०. ग्रहोऽपि न मु० क०। ११. चक्रकदू ब०। १२. कार्यकारणरूपः म०। १३. किस संवादज्ञानापेक्षया अ०। १४. णम् तदपि अ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org