SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ न्यायावतारसूत्रवार्तिकवृचौ [१. सामान्य परि० ६५. अथ प्रेक्षापूर्वकारिणः प्रयोजनमुदिश्य प्रवर्तमाना अर्थक्रियायां सिद्धायां निष्पन्न प्रयोजना न तत्प्रामाण्यपरीक्षायां मनः प्रणिधति । अन्यथा अन्यस्यापि यत् प्रामाण्यकारि तत् स्वतः कथं न प्रमाणमिति । नैतदस्ति । यतो यथा ते प्रेक्षावत्तया प्रवर्तक विचारयन्ति, तथाऽयक्रियामानमपि । तथाहि-इदमर्थक्रियाझानं किं स्वादशायामिवासत्यम् , • सत सत्यमिति ? । अथै तस्य पापितत्वेनैव असत्यत्वम् । तथाहि-प्रबोधानन्तरमेव शरीरबबादेरतिन्यदवस्थामुपलभमानाः 'धिग् मिध्येदं जलार्थक्रियामानम्' इति निश्चिन्वन्ति । जाप्रदवल्यायां तु सर्वदेवाचाधितमर्य क्रियाज्ञानमनुभवन्तो न साशा इति न प्रमाणान्तरमपेक्षन्त इति नानवस्या । तर्हि अवाधितत्वेनैव प्रामाण्यनिश्चयः। ६६. किना-तत् संवादकज्ञानं किम् एकसंतानम्, मिन्नसन्तानं वा । तदपि किम् "एककालम्, मिनकालं पा । तदपि किं समानजातीयम्, उत भिन्मजातीयम् । समानजातीयमपि किम् एकविषयम् , आहोश्विद् भिन्नविषयम् । ६७. तत्र एकसन्तानवर्ति समानकालं समानजातीयं समानविषयम्, मिन्नविषयं वा विज्ञानद्वयं युगपन्नोपपद्यते। भिमकालं तु तत् तैमिरिकचन्द्रद्वयदर्शनेन व्यभिचारि।मिरिकम पुन: पुनलझानमुत्पद्यत एव । किन-एकविषयत्वे यथा प्रान विज्ञानमप्रमाणं तथा दुचरकालभाव्यपि तस्मिमेव विषये प्रवर्तमानम् अप्रमाणं स्यात् । प्राक्तनल प्रामाण्ये पदमिन्नविषयत्वाद् अधिकं किञ्चिद् अपरिच्छिन्दद् गृहीतगाहित्वेन अप्रमाणं स्यात् । न पाप्रमाणेन प्रामाण्यंनिश्चयो युक्तः । भिन्नकालस्य तु भिमविषयस्य रूपाविज्ञानस्य संवादकत्वे मरीचिकाजलज्ञानस्यापि तदुत्तरकालभावि मरीचिकारूपप्राहि दर्शनं संवादक; स्यात् । मिनजातीयं त्वेकसंतानवर्ति समानकालं भिन्नकालं वा यदि संवादकं; तदा मिध्यादर्शनस्यापि विभिन्नवस्तुस्पर्शाविज्ञानं संवादि स्यात् । एकविषयत्वे सतीति चेत् कथं रूपस्पर्शाविज्ञानानामेकविषयत्वम् ।न चैक" द्रव्यमभ्युपगम्यत इति । भिमसंतानं तु समानजातीयं भिन्नविषयम् , एककालम् , भिन्नकालं वा यदि संवादकं स्यात् ; तदा मिध्याज्ञानस्याऽपि तथा भवेत् । एकविषयत्वं तु तत्स्वरूपापरिझाने तत्कर्मताऽप्रतिपत्तौ तयोर्नोपपद्यते । अथ तुल्याभिधानप्रवृत्तिदर्शनात् तयोरेकविषयत्वं प्रतीयते । ननु तैमिरिकद्वैयद्विचन्द्रदर्शनेऽप्येतदस्तीति । तयोरपि परस्परस्य संवादकत्वेन प्रामाण्यं स्यात् । अथ तत्र बाँधकोपलब्धेनैतदेवमित्युच्यते । तर्हि तदेव प्रामाण्यनिबन्धनम् , न संवादकज्ञानमिति । ६८. अथ कारणगुणज्ञानम् । तत् किं प्रत्यक्षम् , उत अनुमानमिति ? । न तावत् प्रत्यक्षम्, इन्द्रियाणां परोक्षत्वात् । न हि धर्मिणः परोक्षत्वे तद्धर्माणां प्रत्यक्षत्वं दृष्टम् । कथं बुख़्यादीनामिति चेत् न, तेषामपि परोक्षत्वात् । येषां तु तत्प्रत्यक्षत्वं तेषामात्मनोऽपि । "अन्येषां बुद्ध्यतिरेकिणोऽभाव एव । अपरेषां कथञ्चिदभेदाद् तद्ब्रहण एव तेषां ग्रहणमिति १. प्रेक्षाकारिणः ब० मु०क०। २. अन्यच्चान्यस्यापि मु०क०। ३. अर्थतस्य ब०। ४. मानाः भिन्नमेवेदं मु०। ५. नैव निश्चयः अ० मु०। ६. "विषयं वा भिन्न मु०क०। ७. 'द्वयदर्शिदर्शनेन ब०। यदर्शितदर्शनेन मु० क० । ८. प्राक्तनवि० अ० मुक०। ९. अप्रामाण्यं स्यात् अ० ब०।१०. प्रामाण्येऽनि मु०। ११. °स्य भिन्न मु००। १२. चैकद्रव्य' अ०। १३. ये द्विचन्द्र भ०। १४. बाधकोपपत्तेनैत मु०। १५. धर्मिपरो अ०० क०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001047
Book TitleNyayavatarvartik Vrutti
Original Sutra AuthorSiddhasen Divakarsuri
AuthorShantyasuri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year2002
Total Pages525
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Nyay, Philosophy, P000, & P010
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy