________________
न्यायावतारसूत्रवार्तिकवृत्तौ [१. सामान्यल० परि० ६१२. किश्च- इदमर्थशून्य विकल्पविज्ञान केन ज्ञायते ? । न च तस्याननुभवः । नापि तद् बाह्यम् , अध्यात्म परिस्पन्दात् । योऽपि कारकसंबन्धान्यथानुपपत्त्या व्यापारः परिकल्प्यते; सोऽपि न युक्तः, यतो यदि तेन तेषां मीलनं क्रियते तदा तेषां सै न स्यात्, पूर्वमेव सिद्धत्वात् । संबद्धानां यदि स स्यात् । तदा किं तेन ?, स्वयमेव संबन्धात् । । ६१३. अपि च-स किं कारकजन्यः, अजन्यो वा ? । अजन्योऽपि भावल्पा, अभावरूपो वा ? । अभावरूपत्वे न फलजनकत्वं स्यात् । भावोऽपि किं नित्यः, अनित्यो वा। नित्यत्वे न कदाचिद् अर्थाधिगतिविरतिः स्यात् । 'अजन्यश्च अनित्यश्च' इति व्याहतम् । जन्योऽपि किमेकक्षणस्थायी, किं वा कालान्तरस्थायी । प्रथमपक्षे क्षणादूर्व प्रतीतिविरतिः स्यात् । प्रतिक्षणमपरापरोत्पत्तौ न कदाचिद्विरमेत । अथ कालान्तरस्थायी; ॥ तदा "क्षणिका हि सा" [शाबर• पृ० ३२] इत्यभ्युपेतहानिः। .
६१४. अपि च-असौ क्रियारूपः, अक्रियारूपो वा? । सोऽपि कि परिस्पन्दरूपा, अपरिस्सन्दरूपा वा ? । परिस्पन्दात्मिका नास्पन्दस्यात्मनः स्यात् । यदर्थः प्रयासः स एवं त्यतः स्यात् । अपरिस्पन्दः किं परिस्पन्दाभावः, किं वा वस्त्वन्तरमिति ? । अभावस्थ
जनकत्वविरोधादित्युक्तम् । वस्त्वन्तरमपि किं चिद्रूपः, किं वा जहः ? । चिद्रूपोऽपि किं ॥ धर्मी, किं वा धर्मः ? । यदि धर्मी; न प्रमाणं स्यात्, आत्मवत् । अथ धर्मो यदि
आत्मनोऽभिन्नः, न प्रमाणम् । भिन्नोऽपि असंबन्धात् न तस्य । 'तत्कार्यत्वात् तस्य' इति चेत्, तत्कर्तृत्वं यदि व्यापारान्तरेण; तदा अनवस्था । निर्व्यापारस्य कार्यकर्तृत्वे; किं तेन ? । जडोऽपि यदि धर्मी; लोष्टवत् न किञ्चित् । अथ धर्मः; तदाऽऽत्मनः कथं जडो धर्मः ?।
१५. अपि च-व्यापारेण फलं यदि व्यापारवता जन्यते; तदा अनवस्था । अव्यापरिपक्षे प्रथमेनापि तेन किम् ? । अथ व्यापारस्य तद्रूपत्वाद् न तदन्तरमिति चेत्, किमिदं तद्रूपत्वम् - किं पराश्रितत्वम् , किं वा परजन्यत्वम् ? । संयोग-समवायनिराकरणेन आश्रितत्वानुपपत्तेः । जन्यत्वमपि अविचलितानुत्पन्नस्थिरैकरूपेणात्मना क्रमाऽक्रमाभ्यां नोपपद्यत इति न व्यापारः कश्चित् । तन्न परोक्षं ज्ञानं प्रमाणमिति । ६१६. किश्च
अनात्मविदि विज्ञाने तादात्म्यात् सुखदुःखयोः । वेदनं नोपपद्येत न स्यातां प्रीतितापने ॥ १॥ एकार्थसमवायस्य पूर्वमेव निराकृतेः।
नैषामज्ञानरूपत्वं एकहेतुसमुद्भवात् ॥ २ ॥ .६१७. उक्तं च
"तदतदूपिणो भावास्तदतद्रूपहेतुजाः।
तत्सुखादि किमशानं विज्ञानामिनहेतुजम् ॥" [प्रमाणवा० २.२५१.] १. शून्यविक ब०। २. यदि तेषां मु० क०। ३. तेषां संबन्धः स्यात् मु०। ४. अजन्यो भाव' क०मु०। ५. 'भ्युपगतहानिः ब०। ६. सोऽपि मु०। ७. रूपोऽप मु०। ८. रूपो वा मु०। ९. एवं प्रत्युक्तः मु०। १०. रस्याकार्य° क० मु०। ११. अव्यापारवता जन्यते पक्षे प्रथब०। १२. रस्यातद्रूप क०। १३. 'खम् परा० अ०। १४. दिकमज्ञा क० मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org