________________
कारिका ५.]
स्वसंवेदनवादः। प्रायेण; सदा तस्य प्राहकत्वात् कार्यत्वम् । ततश्चाने पातो द्वितीयस्यै । तस्याप्येवमिति काचपच्यं ज्ञानयोः स्यात् । तन्न प्रायेण । ज्ञानान्तरेणापि ग्रहणे तस्याप्यन्येनेत्यनवस्था । तन्न प्रत्यक्षं तद्राहकम् ।
६८. नापि परोक्षम् ; यतः तदपि किम् अर्थापत्तिा, उतानुमानमिति ? । तत्र न तावत् प्रथमः पक्षा, अर्थापत्तेरप्रमाणत्वात् । तथाहि - अर्थप्राकट्यादसावुत्पद्यते इत्यभ्युपगमः ।। तच तत्र किं नियतम् , अनियतम् वा । यद्यनियतम् ; कथं नियमेन गमयेत् ? । अथ नियतम् । तदा नियममहः किं तस्मिभेव धर्मिणि, किंवा धर्म्यन्तर इति ? । यदि तस्मिश्रेय; तदा येनैव प्रमाणेन नियमग्रहः, तेनैव साध्यस्यैव साधितत्वात् किमर्थापत्त्या । अथ धर्म्यन्तरे; तदा अन्यत्र गृहीतप्रतिबन्धम् अन्यत्र गमयदनुमानतां नातिकामति ।
६९. अपि च- अर्थापत्तिरपि किमर्थापत्त्या ज्ञायते, किं वा स्वसंवेदनेनेति ? । यदि ।। खसंवेदनेन; तदा प्रथमे कः प्रद्वेषः ? । अथार्थापत्त्या; तदा किं तेनैव प्राकट्येनोत्थाप्यते, किंवाऽन्येन ? । यदि तेनैव; तदा किं युगपत् , किं वा क्रमेण ? । प्रथमपक्षे अभ्युपगमहानिः । अथ क्रमेण; तदपि नास्ति, अननुभवात् । अथान्येन; तदा तदर्थापत्तापपि ज्ञानप्रमेऽपरिमितार्थापत्तिमाला प्रसज्येत । तन्नार्थापत्त्याऽपि ज्ञायत इति । निषेत्स्यते चार्थापत्तिस्तत्प्रस्ताव इति ।
६१०. अनुमानमपि न तव्यवस्थापकम् , यतस्तदपि गृहीतसंबन्धमेव प्रवर्तते । संबन्धप्रहस्तु किमन्वयमुखेन, किं वा व्यतिरेकमुखेण ? । न तावदन्वयमुखेन, यतः 'तद्भाव एवं भावः' इति स प्रतीयते । तदावभावित्वं च किं प्रत्यक्षेण प्रतीयते, किं वाऽनुमानेन ? । न तावद् अत्यन्तपरोक्षे विज्ञाने प्रत्यक्षेण । नाप्यनुमानेन, अनवस्थाप्रसङ्गात् । व्यतिरेकमुखेणापि नास्ति, यतो विपक्षे हेतोरभावः किमभावप्रमाणेन प्रतीयते, आहोश्विदनुपलम्भेन ? । अभा.. वप्रमाणाभावाद् न प्रथमः पक्षः । अनुपलम्भोऽपि किं दृश्यानुपलम्भः, किं वा अदृश्यानुपलम्भः ? । अन्त्यस्य सत्यपि वस्तुनि भावाद् न व्यतिरेकसाधकत्वम् । दृश्यानुपलम्भमपि स्वभाव-कारण-व्यापकाउनुपलम्भभेदेन व्यावर्णयन्ति । तत्र दृश्यानुपलम्भो नादृश्ये ज्ञाने संभवति । नापि कार्यकारणभावः । स हि प्रत्यक्षानुपलम्भसाधकः कथं परोक्ष वस्तुनि स्यात् ? । व्याप्यव्यापकभावोऽपि प्रत्यक्षानुमानाभ्यां तस्य न प्रतीयते इत्युक्तम् । अतः कथं ततस्तदभाव इति । तत्र व्यतिरेकद्वारेणापि संबन्धनिश्चयः।
६११. किच, तलिङ्गम् अर्थः, चक्षुरादयो या ? । अर्थोऽपि कि सामान्यरूपा, विशेषरूपो षा? । सामान्यस्य ज्ञापकत्वे अतिप्रसङ्गः । विशेषोऽपि यदि प्राकट्यम् , आभिमुख्यम् । तदपि अर्थात् भिन्नम्, अमिन्नं वा? । यदि भिन्नं स्वप्रकाशम् । तदा सिद्धं साध्यम् , किमनेन ? । अयाभिन्नम् । तदा स्वप्रकाशोऽर्थः प्रेसज्येत । एवं चक्षुरादिष्वपि वाच्यम् । ॥
१. तदस्य ब०। २. द्वितीयस्याप्ये क० अ००। ३. गमयेतानुमा अ०। ४. एतदपि मु० क०। ५. अनुपलम्भमात्रस्य अ० ब० क०। ६. प्रत्यक्षानुपलम्भौ साधको यस्य इति विग्रहः कार्य:-सं०। ७. कम् तत् कथं क० मु०। ८. अनुपलम्भात् अ-टि०। ९. विपक्षे हेतोरभावः भ-टि० । १०. किमन्येन क० मु०। ११. प्रसाभ्येत भ००।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org