SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ न्यायावतारसूत्रवार्तिकवृत्तौ [१. सामान्यल० परि० ६२. प्रदीपवदिति सजातीयानपेक्षत्वेन दृष्टान्तः । तथाहि-मानम् अात्मप्रकासकम् , अर्थप्रकाशकत्वान्यथानुपपत्तेः प्रदीपवत् । एनमेव हेतुं विपर्यये वाधकप्रमाणेन समर्थयितुमाह-नोपपद्यत इत्यादि । आत्मानं वेदयतीति आत्मवेदनम्, न तथा । तस्मिन् सति ने किश्चित् केनचित् विज्ञायेत इत्यन्धमूकं जगत् स्यात् । [४] ६३. इतश्चानात्मवेदनं ज्ञानं नाभ्युपगम्यते, प्रमाणेनाप्रतीतेः । तथाहि - यत् सदुपलम्भकप्रमाणगोचरचारि न भवति, तत् सकलमेव न सव्यवहृतिपथमवतरति । यथा शशविषाणम् । नावतरति च सदुपलम्भकप्रमाणगोचरताम् आत्मव्यापारादिलक्षणं विज्ञानमिति । तथाहि-तबाहकं प्रत्यक्षं वा स्यात् , परोक्षं वा । ____६४. प्रत्यक्षमपि किम् इन्द्रियार्थसंप्रयोगजम्, आहोखिद् आत्म-मनासनिकर्षसमुत्थम् , ॥ उतैश्वित् स्वसंवेदनं यदर्थोऽयमारम्भ इति ? । तत्र ज्ञानेनेन्द्रियस्य सग्निकर्षाभावात्, अनभ्युपगमाच न प्रथमः पक्षः । नापि द्वितीयः, मनःसद्भावे प्रमाणाऽभावात् । न चाप्रमाणकं वस्तु विपश्चितः समाश्रयन्ते । न च युगपज्ज्ञानानुत्पत्तिः तत्प्रमाणम् , तस्या अन्यथाप्युपपत्तेः । तथाहि - यस्मिन्त्रात्मा आभिमुख्यं प्रतिपद्यते तस्मिन् विज्ञानमुदेति, अन्यत्र नेति किं मनःपरिकल्पनया ?। ॥ ६५. अथेदमाभिमुख्यं किम् आत्मनो व्यतिरिक्तम् , आहोखिद् अव्यतिरिक्तमिति ? । तत्र यदि व्यतिरिक्तम् । तदा संज्ञामात्रं भिद्यते नार्थ इति । अथाव्यतिरिक्तम् । तदाऽऽत्मनः स्वरूपाप्रच्युतेः सर्वदा तदस्तीति सर्वदा सर्व विषय विज्ञानं स्यात् । नन्वात्मनो मनसा संयोगकर्तृत्वं किं भिन्नम् , अभिन्नं वेति ? । यदि भिन्नम् ; नात्मनः कर्तृत्वम् । अथामिन्नम् । तदा तदपि तत्स्वरूपवत सर्वदाऽस्तीति सर्वदा संयोगः स्यात् । ततश्च सर्वदा ज्ञानोत्पत्तिरपि " स्यादिति । ६६. अथ शक्तः कर्तृत्वम् , सा च सहकारिकारणवशात् कदाचिद्भवन्ती न दोषपोषमावहति । यद्येवं तर्हि कर्मणः सामर्थ्यादाभिमुख्यमात्मनः समुत्पद्यमानं ऊमवती ज्ञानोत्पत्ति विधास्यतीति किं मनःपरिकल्पनया ? । विधास्यते चायमर्थों "जीवांशात् कर्मनिर्मु तात्" [का० १८ ] इत्यत्रान्तरे । तन्नात्म-मनोजनितमपि प्रत्यक्षं प्राहकमिति । ४.६७. अपि च - तत् तस्य कारणं, कार्यम् , अनुभयं वा सत् प्राहकं स्यात् ? । न तावत् कारणम् ; तदानीं ग्राह्यस्याभावात् । नाप्यनुभयम् ; असंबन्धात् । अथैकसामग्रीतस्तदुभयं माझमाहकरूपं समुत्पद्यत इति । तन्न, युगपज्ज्ञानोत्पत्त्यनभ्युपगमात् । किञ्च ज्ञानाविशेषे ऽप्येकं प्रायम् , अपरं प्राहकमिति किंकृतोऽयं विशेषः । अथ कार्यम् । तदा तदपि हातम. · अज्ञातं वा ? । [अथाज्ञातम् ; तन्न, ] अज्ञातस्य ज्ञापकत्वाऽयोगात् । तदुक्तम् “अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्ध्यति"। अथ ज्ञातम् ; तदपि यदि प्रत्यक्षान्तरेण, तदा किं प्रायेण किं पा शानान्तरेण १। यदि १.न केनचित् किश्चित् ब० क० मु० ।। २. चरतावतारि मु०। ३. उतखित् मु०क०। ४. प्युत्पत्तेः अ०। ५. विषयज्ञानं ब०। ६. भिन्नमथाभिन्ममिति ब०। ७. दोषमावहति कामु०। ८. मानं संभवन्ती ज्ञानो मु०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001047
Book TitleNyayavatarvartik Vrutti
Original Sutra AuthorSiddhasen Divakarsuri
AuthorShantyasuri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year2002
Total Pages525
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Nyay, Philosophy, P000, & P010
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy