SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ कारिका ४.] स्वसंवेदनबादः । १.७ १४. आधाराधेयभावोप्यात्म-ज्ञानयोर्नोपपद्यते । यथा चाधारावेयभावो नास्ति तथा नास्तिके निराकृतावभिधास्यते । यथा चाप्रच्युतानुत्पन्नस्थिरैकरूपतया नित्यः समवायोऽन्यो बा न संभवति तथा यथावसरं प्रतिपादयिष्यते । तन्न कश्चित्समवायः । तदभावात् नात्मनो विशेषः । तस्मात् प्रमाणजननात् सोऽपि प्रमाणं स्यात्, न वाऽन्यदपीति । तन्न सन्निकर्षः । १५. आदिग्रहणात् सामग्र्येकदेशश्चक्षुरादिर्न' प्रमाणम्, किन्तु ज्ञानमिति । १६. अथ किमिदं ज्ञानस्य प्रामाण्यम् ? । किम् अर्थग्रहणम्, उतागृहीतार्थप्रापणम्, आहोश्विद् गृहीतार्थप्रापणमिति १ । तत्रार्थग्रहणम्, अगृहीतार्थप्रापणं च मिथ्याज्ञानेऽप्यस्तीति तस्यापि प्रामाण्यं स्यात् । गृहीतार्थप्रापणं तु क्षणिकपर्यायवादिनो न संभबति । तथाहि - - यः पर्यायो गृहीतः नासौ प्राप्यते । यस्तु प्राप्यते न स गृहीत इति । अथ वस्तुमात्रं गृहीतं प्राप्यते । तदपि 'सर्वमेकं कथचित्' इति वादिनो मिथ्याज्ञानेऽप्यस्तीति 10 तस्यापि प्रामाण्यं स्यादित्याशङ्कयाह - 'अवभासो व्यवसायो न तु ग्रहणमात्रकम्' इति । तेन यद्यपि मरुमरीचिकानिकुरुम्बचुम्बिज्ञानम् 'इदम्' इत्यंशेन मरीचिकास्वरूप मुल्लिखदुत्पद्यते, तथापि विपर्ययाकान्तत्वात् न प्रमाणमिति । प्रामाण्य विचारः १७. अथ कोऽयं व्यवसायः १ । किमर्थग्रहणम्, उताग्रहणमिति १ । यदि ग्रहणम् ; तदा तदेव दूषणम् । अग्रहणे कथं प्रामाण्यमिति ? । अत्रोच्यते । सदसद्व्यवहारजननसामर्थ्य is व्यवसायः । तथाहि - सदितिज्ञानाभिधानप्रवृत्तिलक्षणः सद्व्यवहारः । नास्तीत्यादिलक्षणच असद्व्यवहारः । तयोर्जननसामर्थ्य व्यवसायं ब्रुवते । तेन मिथ्याज्ञाने तन्नास्तीति न तस्य प्रामाण्यमिति । [३] ६१. भवतु ज्ञानं प्रमाणम् । तत् पुनः केन वेद्यते ? किं स्वयमेव, किं वा ज्ञानान्तखसंवेदन- रेणेति ? | यदि ज्ञानान्तरेण; तदाऽभ्युपेतहानिः । अथ स्वयम् । तदपि नास्ति । " बादः । यतः - "यद्यर्थवेदनं ज्ञानमात्मनोऽपि प्रकल्प्यते । सुशिक्षितो बटुः स्कन्धं स्वमारोहतु दासवत् ॥” तथाहि - वेद्यतेऽनेनेति वेदनम् वेद्यते तदिति वेद्यमिति विरुद्धयोः करणकर्मणोः कथher सद्भाव इति ? । कथमात्मानमात्मना आत्मा वेतीति व्यपदेशः ? । तस्मात् कल्पिताः क्रियाकारकव्यपदेशाः प्रवर्तमाना न वस्तु विरुन्धन्ति । अपि च- प्रमाणसिद्धे वस्तुनि को विरोधः 1 । एतदेवाह - 1 Jain Education International दीपवनोपपद्येत बाह्यवस्तुप्रकाशकम् । अनात्मवेदने ज्ञाने जगदान्ध्यं प्रसज्यते ॥ ४ ॥ प्रत्यक्षं च परोक्षं च ग्राहकं नोपपत्तिमत् । १. नास्तिकमतनिरा मु० । २. सामध्येकदे अ० क० मु० । ३. 'रादि प्रमा ब० । नेतिशेषःब- टि० । ४. उतार्थप्रापण ब० क० । ५. चिकासु उदकचुम्बि मु० । ६. चुम्बिविज्ञानं ब० । ७. त्मना असौ ती मु० क० । ८. वस्तुं वि० मु० क० । ९. वस्तु विरुन्धति अ० । वस्तु निद ब० । न्या० ३ 5 For Private & Personal Use Only www.jainelibrary.org
SR No.001047
Book TitleNyayavatarvartik Vrutti
Original Sutra AuthorSiddhasen Divakarsuri
AuthorShantyasuri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year2002
Total Pages525
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Nyay, Philosophy, P000, & P010
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy