SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ म्यायावतारसूत्रवार्विकचौ [१. सामान्यल० परि० कत्वम् । तच रूपादेरप्यस्तीति । वस्तुस्वभावैरुत्तरं वाध्यमिति चेत् । तदेतत् पादप्रसारणमिति । तमाशातस्यापि सापकत्वम् । ६१०. अथ प्रमाणजननात् सन्निकर्षाविः प्रमाणम् । नन्यौपचारिकमिदं स्यात् । किड, इदं लक्षणमतिव्यापकम्, अव्यापकं च स्यात् । तथाहि-आत्मनोऽपि प्रमाणजनकत्वात् • प्रमाणत्वं स्यात् । ईश्वरस च इन्द्रियाविसनिक भावात् प्रामाण्यं न स्यात् । अथ ईश्वर स्थापि शेयाथैः सहास्ति समिकर्षः । कथमविद्यमानैरतीतानागतैरिति ? । मा भूविति चेत्; कथमतीवानागतमः ? । अथ नित्यं तस्य प्रमाणम् । तर्हि न सन्निकर्षस्तत्रेत्यव्यापकम् । ६११. अथोत्सर्गोऽपवादेन प्रमातृत्वेन बाध्यत इति नातिव्याप्तिः । किं न प्रमेयत्वेन समिकर्षादौ १ । अपि च कारणत्वाविशेषेऽपि 'इदं प्रमाणम्' 'अयं प्रमाता' इति विशेषो "वक्तव्यः । अथ यत्र प्रमाणं समवेतं स प्रमाता, तदितरत् प्रमाणमिति । नैतदस्ति । यतः समवायस्य व्यापित्व-नित्यत्वोपगमात् सर्वप्रमाणैः सर्वे प्रमातारः प्रसज्येरन् । समवायिविशेषाद् विशेषोपगमे नित्यत्वक्षतिः । ६१२. न प कनित्समवायं प्रत्यक्षात् प्रतीमः । अनुमानतस्तत्प्रतीतिरिति चेत्-तथाहिसमवायप- इहेतिप्रत्ययः संबन्धनिबन्धना, अबाधितेहप्रत्ययत्वात् । यो योऽवाधितेहप्रत्ययः निषः। स स संबन्धनिबन्धनः, यथा 'इह कुण्डे दधि' इति प्रत्ययः । तथा च 'इह तन्तुषु पटा' इति प्रत्ययः । तस्मात् संवन्धनिबन्धन इति । इह प्रामे वृक्षाः' इति भ्रान्तप्रत्ययनिवृत्त्यर्थमवाधितग्रहणम् । तथा सामान्येन संबन्धनिबन्धनत्वे साध्ये नाऽन्यदोषः । सामा विशेषसिसिरिति । उक्तमत्र-एवंविधानां कल्पनाज्ञानानां वस्तुव्यवस्थापकत्वाभावादिति । न चासंबद्धलिङ्गादुदयतामनुमानानां प्रामाण्यमुपपचिमत् । अन्यथा, 'स * श्यामः, तत्पुत्रत्वात् , परिदृश्यमानतत्पुत्रवद्' इत्यादीनां प्रामाण्यं स्यात् । बाधितत्वामेति चेत् ; अत्र कि न बाधा । काऽसाविति चेत् । इयमेव तावद् यदनियमतो लिलादुत्पत्तिरिति । ६१३, तया, अयुतसिद्धानामाधाराधेयभूतानां स व्यावर्ण्यत इति । तत्र अयुतसिविं(डि) किं देशैकत्वेन, किम् एककालत्वेन, अथ स्वरूपैकत्वेनेति । तत्र न तावदेशैकत्वेन । न हि य एष तन्तूनां देशा, स एव पटस्थापि । तथाहि-तन्तवः खारम्भकेवं“शुषु स्थिताः, पटस्तु तेष्विति कथं देशैकत्वम् । आकाशैकत्वे सर्वेषामेकदेशत्वं स्यात् । न च तदेकदेशत्वेन एकदेशत्वम्, निर्देशत्वात् नभसः । कल्पितास्तस्य त इति चेत् ; तत् किं कल्पनातो वस्तुव्यवस्था ? । तन्न प्रथमः पक्षः। नापि कालैकत्वेन । नहि य एव तन्तूनां काला, स एष पटस्थापि, कार्यकारणभावाभावप्रसङ्गात् । कारणेन हि कार्यस्य समानकालस्वमन्यतः सिद्धस्स स्यात् । ततय कि सिद्धोपस्थायिना कारणेन । वन कालैकत्वेनाप्ययुत"सिद्धिः । वरपैकत्वे किं कुत्र समवैतु। तन्नायुतसिद्धिः। . . १. च तथाहि-अ०५०। २. प्रामाण्यम् क० मु०। ३. 'धिवेहेतिप्रत्ययत्वात् क०मु०। ४. यथा मु०। ५. नानन्वयदोषः। अ०। ६. धानो कुकल्प मु०। ७. चासंबन्धलि म०प० क०। ८. वरपुत्र मु०क०। ९. मानपुत्र ब०क०। मानलात्पुत्र मु०। १०. यद्विनिय मु०। ११. तदेकदेशदेशलेन मु०। १२. खरूपेणैकले क०। Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001047
Book TitleNyayavatarvartik Vrutti
Original Sutra AuthorSiddhasen Divakarsuri
AuthorShantyasuri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year2002
Total Pages525
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Nyay, Philosophy, P000, & P010
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy