________________
कारिका ३. ]
सन्निकर्षप्रामाण्यखण्डनम् ।
न
न दूरस्या: ? । संयोगाभावात् । तत् किं संयोगेऽपि संयोगः १ ॥ तत्राप्यपर ere योग्यदेशस्थाः संयोगमन्तरेणापि संयोगमुत्पादयन्ति । कार्येण किमेषामपराद्धं यत्तनो पादयन्ति ? |
६५. अपि च, किमेषां दूरस्थानां कार्यानुत्पादकत्वं संयोगापेक्षया व्याप्तम्, प्रत्यक्षेणः प्रतीयते, किं वाऽनुमानेन ? । न तावत् प्रत्यक्षेण, तेन तस्माप्रतीतेरित्युक्तम् । नाष्यनुमानेन, अनवस्थाप्रसंगात् । अथ निमित्तमात्रापेक्षया व्याप्तं प्रतीयते । तर्हि योग्यदेशादिविशिष्टं अननसामर्थ्यमात्मपर्यायमपेक्षमाणास्ते कार्य न कुर्वन्तीति न पुनः संयोगमिति । तजाति कश्चित् सन्निकर्ष इति ।
माण्यनि
वेधः ।
T
/
६६. भवतु वा, तथापि तस्य प्रमाणत्वं न संभवति । तथा हि-किमसौ स्वयमेव प्रमासचिकर्षप्रा- णम्, किं 'वा प्रमाणजननादिति । स्वयमपि किं ज्ञातोऽर्थ ज्ञापयति, अज्ञाती ॥" वा ? । ज्ञातोऽपि किं प्रत्यक्षेण, किं वाऽनुमानेन १ । प्रत्यक्षेणापि किं सामान्यरूपतया, किं वा विशेषरूपतया ? | यदि सामान्यरूपतया; न प्रतिकर्मव्यवस्थां कुर्यात् । विशेषरूपतयाऽपि तज्ञानं कर्मणि ज्ञाते स्यात् । नहि नीलाशाने 'नीलस्यायं सन्निकर्षः' इति ज्ञानं भवति । नीलज्ञानं किं तत एव सन्निकर्षात्, अथान्यतः १ । यदि तत एव तदा इतरेतराश्रयत्वम्, नीले ज्ञाते तज्ज्ञानम्, तज्ज्ञानाथै नीलज्ञानमिति । अथान्यतः सनि-1 कर्षात् । तदा तदेव चोद्यम्, तदेवोत्तरमिति, अनवस्था च । अथान्यतः प्रमाणाचीज्ञानम् । तर्हि किमन्तर्गडुना तेन ? । तदर्थ हि स परिकल्प्यत इति । कि । खसंवेदनप्रत्यक्षं नाभ्युपगम्यते । तत्परिज्ञानं पुनरन्येन्द्रियसन्निकर्षेण । तस्याप्यन्येनेत्यनवस्था । न च निकर्षे सन्निकर्षो, निर्गुणा गुणा इत्यभ्युपगमात् ।
६७. अथ संयुक्तसमवायात् तस्य ग्रहणम् । तथाहि - संयोगात् द्रव्यग्रहणम् । संयुक्त- 2:0 समवायात् गुणग्रहणम् । संयुक्तसमवेतसमवायात् गुणत्वग्रहणम् । समवायत् शब्दग्रहणम् । समवेतसमवायात् शब्दत्वग्रहणम् । विशेषणविशेष्यभावात् अभावग्रहणमिति प्रोढा सन्निकर्ष इति ।
६८. तदसत् । यतश्चक्षुर्नीलसन्निकर्षः किं स एव यः संयुक्तसमवायाद् गृहाते, किं वा सन्निकर्षान्तरमिति ? | यदि स एव । तन्न । यतो न स्वयमेव स्वं ज्ञापयति, स्वसंवेदनप्रस- 2 ङ्गात् । सन्निकर्षान्तरे कल्पनेऽनवस्था । तन्न प्रत्यक्षप्रतीतः सन्निकर्षः । अनुमानं तु तस्मिन् प्रागेव निराँसीति न पुनरुच्यते । तन्न ज्ञातो ज्ञापयति ।
६९. अज्ञातस्यार्थज्ञापकत्वे शशविषाणस्यापि प्रसंग: । असमवायात् न शशविषाणमिति चेत्; किं न रूपादि ? | अज्ञापकत्वान्नेति चेत्; न तत्र समवाय एव सन्निकर्षस्यापि शाप
१. दूरदेशस्थानां मु० । २. प्रतीतिरि° क० मु० । ३. निमित्तमात्रेण व्या' ब० ।
सामार्थ्यमात्रपर्या मु० । ५. किं प्रमा° अ० । ८. परिकल्पत अ० । ९. किं वा ख० ब० मु० क० । १२. न्तरपरिकल्प
₹५
Jain Education International
मु० क० क० मु०
।
$
४. शिष्टं
६. खयमेव किं मु० । ७. 'ज्ञानाचील अ० ब० । १०. या शब्द सु० । ११. 'हणमिति । विशे
/
१३. निरासीदिति क० मु० ।
।
For Private & Personal Use Only
www.jainelibrary.org