________________
न्यायावतारसूत्रवार्तिकवृत्तौ [१. सामान्यल० परि० णानुवादेन लक्ष्यमिति । तत्र प्रमाणम् इति लक्ष्यनिर्देशः । शेष लक्षणमिति । नचैतद्वाव्यम्-तादात्म्यात् लक्षणासिद्धौ लक्ष्यस्याप्यसिद्धिः, तत्सिद्धौ वा तस्यापीति । यस्मात् यदेतत् प्रमाणशब्दवाच्यं वस्तु सर्वेषां प्रसिद्धं, तदनुषादेन विप्रतिपत्त्याऽसिद्धं लक्षणं विधीयत इति । [२] • ६१. तत्र ज्ञानं प्रमाणम्, न सन्त्रिकर्षादि । तदाह-समिकर्षादिकम्-इत्यादि
सन्निकर्षादिकं नैव प्रमाणं तदसंभवात्।
अवभासो व्यवसायो न तु ग्रहणमात्रकम् ॥३॥ ६२. तदसंभवादिति । तस्यैव सन्निकर्षस्यैवासंभवात् । यदि वा तस्य प्रमाणत्वस्यासंभसनिहितव. वात् । तथाहि-न सन्निहितवस्तुद्वयव्यतिरिक्तः कश्चिद् दण्डायमानः संयोगः "तिरिकस्य प्रत्यक्षेणोपलभ्यते । योरगुल्योरयं संयोगः' इति प्रतीतेः कथं नोपलभ्यत इति
चेत् ; 'तासामङ्गुलीनाम् अयं मुष्टिः' इति किं न प्रतीतिः । तत्रापि संयोगविशेषो निमित्तमिति चेत् ; न, 'संयोगविशेषः' इति स्यात्, न 'मुष्टिः' इति । न हि नीले 'पीतम्' इति प्रत्ययो भवति । अथ संकेतवशात् तथाप्रतीतिः । तर्हि पुरुषेच्छानिर्मितसंकेतवशात् प्रवर्तमाना एवंविधाः शब्दविकल्पा न किञ्चिद्वस्तुभूतं निमित्तमवलम्बन्त इति नैत
शाद् वस्तुव्यवस्था विदुषामुपपमेति । अन्यथा 'इदं नगरम्' इत्याविष्वपि निमित्तमभिधानीयम् । तत्र न तावत् नगरं द्रव्यम् , गृहैरसंयुक्तैर्विजातीयैश्च तस्यानारम्भात् । कतिपयगृहाणामस्ति संयोग इति चेत् । तत् किं संयोगेष्वपि संयोगः । यतो गृहाण्यपि न द्रव्याणि, विजातीयैः काष्ठेष्टकादिभिस्तदनारम्भात् । सत्ता नगरमिति चेत् ; किं नाटव्यां तत्प्रत्ययमुत्पादयति ? । गृहैविशेषितेति चेत् ; न, कूटस्थनित्याया विशेषणाऽयोगात् । अकि. चित्करस्याविशेषणत्वात् । किश्चित्करत्वे नित्यताहानेः । षण्णगरीत्यत्र च समूहार्थों वाच्यः । सत्ताया एकरूपत्वेन समूहार्थत्वानुपपत्तेः । सत्तां च निषेत्स्यामः । गृहाणो संयोगरूपाणां संयोगाभावात् , गुणैर्द्रव्यानारम्भाचेति न कश्चित् समूहार्थः । तेनैवंविधाः प्रत्यया वस्तु व्यवस्थापयन्तीति न संयोगः प्रत्यक्षगम्यः ।
६३. अथानुमानात् तत्प्रतीतिः । तथा हि - क्षिति-बीज-सलिलादयः सर्वे विरलदेशस्थाः " अन्यनिमित्तापेक्षाः, सामर्थ्य सति कार्यानुत्पादकत्वात् । यद्यत् सामर्थ्य सति कार्यानुत्पादकम् , तत्तद् अन्यापेक्षं दृष्टम् । यथा त एव बीजादयोऽन्यतरविकला । नोत्पादयन्ति च समर्था अपि विरलदेशस्थाः सर्वे "बीजादयोऽडरमिति । तस्मादन्यनिमित्तापेक्षाः । यत् सनिमित्तं स संयोग इति ।
६४. ननु बीजादयो दूरदेशस्था अपि सहकारिणं किं न संयोगमुपपा(मुत्पादयन्ति । तस्या"भावादिति चेत् । स किं न भवति ? । कारणाभावात् । किं तस्य कारणम् । त एव । किं
१. सर्वेषु मु०। २. र्षस्याऽसंभ० ब० मु० क०। ३. तयोर मु० ब० क०। ४. तत्रापि न संयो' क०। ५. स्तुकृतनिमि० मु०। ६. तत्तु संयो मु०। ७. काष्ठेष्टिका अ०१०। ८. सदारम्भात् मु०क०। ९. हार्थः तेनैवंविधाःक०म०। १०. सर्वे अकुर मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org