________________
कारिका २.]
प्रमाणस्य लक्षणम् । इति । अथेष्टोऽयमर्थः शक्येत ज्ञातुम् अतिशयो यदीत्यभिधीयते । एतत् पश्चात् प्रतिपादयिष्यामः।
६८. हितोऽपि कालान्तरेण ज्वरितादेरिव दध्यादिकं यद्यप्यहितो भवति, तथापि इष्टप्रथमकारि- त्वाद्धितः । अहितोऽप्येवम् । उपेक्षणीयोऽपि प्रमाणाविषयत्वात् , यदि वा अनुपादेयत्वात् सोऽप्यहित एव । तयोहिताहितयोः प्राप्ति-त्यागौ यतः प्रमाण निवन्धनौ । अतः तत् प्रकर्षण-संख्या-लक्षण-गोचर-फलविप्रतिपत्तिनिराकरणरूपेण, स्वतः परतः प्रामाण्यलक्षणेन वा, प्रत्यक्ष-परोक्षरूपेण वा वक्ष्यामः।
६९. नन्वतीत-वर्तमानयोरुपयुक्तफलत्वेन प्रवृत्त्यविषयत्वात् , भाविनस्त्वयक्रियाकारिणः प्रमाणागोचरत्वात् , भाविनि प्रमाणाभावादिति । तत् कथं हिताहितयोः प्राप्ति-त्यागौ प्रमाणनिबन्धनाविति ? । नैष दोषः, अतीत-वर्तमान-भविष्यतां कशिदेकत्वस्य प्रतिपादयिष्य- ।। माणत्वादिति ।
६१०. यदि वा हितो मोक्षः, अहितः संसारः, वयोः प्राप्ति-त्यागौ सर्वशनिबन्धनौ, अतस्तमेव भगवन्तं प्रमाणभूतं प्रतिपादयिष्याम इति ।
६११. वत् किं खातव्येण ? । न इत्याह-सिद्धसेनार्कचत्रितम्-इति । सिद्धसेन एवं जगजन्तुमनोमोहसंततितामसीतमःसमूहापोहकारित्वात् अर्क इव अर्की, तेन'सूत्रितम् ।। तत्सूत्राणामतिगम्मीरार्थत्वात् किचिल्लेशतो यथावोधं व्याख्यास्यामः [१]। ६१. तदेवाह-प्रमाणम्-इत्यादि ।
प्रमाणं खपराभासि ज्ञानं बाधविवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्चयात् ॥२॥
-ति शालार्थसंग्रहः॥ .. ६२. अथेदं सूत्रं-किं सकलमेव शास्त्रार्थ प्रतिपादयति, किं वा एकदेशमिति ।न शाबास- सावत् सकलम्, फलप्रमाणाभासतापप्रतिपत्तेः । नाप्येकदेशम्, सकलप्रमाणप . लक्षणप्रतिपादनात्-इत्याशवाह-शास्त्रार्थसंग्रह इति । तथाहि-प्रमाणं सामान्यत्पर्यायः विशेषरूपतयाऽनेन संगृह्यत इति । स एव चे शालार्य इति । संग्रहस्तु वितरविरोधीत्य वयवेनाप्रतीतावपि न दोषः । यल्लक्षणं च. यद् वस्तु येषां प्रतिपायते वलक्षणविकलं तद् वस्तु तदाभासतया ते स्वयमेव प्रतिपद्यन्त इति किं प्रमाणाभासप्रतिपादनेनेति । निश्चयात्मकप्रमाणप्रतिपादनात् तपस्य फलस्य प्रतीतेः किं तदुपन्यासेन ।
६३. तत्र सूत्रपूर्वार्धेन प्रमाणसामान्यम् , उत्तरार्धन सद्विशेषोऽभिहित इति समुदायार्थः । अवयवार्थ तु सकलमेव शास्त्रमभिधास्यतीति ।
४. तत्र विधिवाक्ये लक्ष्यानुवादेन लक्षणं विधीयते । तदुत्तरकालं तु तत्र तत्र लक्ष-.
१. शब्दे तज्मा मु०। २. यदिस्य क० मु०। ३.०रिणः प्रमाणाभावादिति भ०। ४. अतीतानागतवर्तमानानां मु०। ५. एव शाखामु०। ६. साकल्येन अ-टि०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org