SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ श्रीशान्त्याचार्यविरचितं न्यायावतारसूत्रवार्तिकम् । नासंयुक्तैर्न संयुक्तैर्निरशैः क्रियते महत् । अयोगे प्रतिभासोऽपि संयोगेऽप्यणुमात्रकम् ॥ मिनदेशखरूपाणामणूनामंग्रहे सति । तत्स्थौल्यं यदि कल्पेत नावभासेत किंचन ॥ नैतदस्ति यतो नास्ति स्थौल्यमेकान्ततस्ततः। भिन्नमस्ति समानं तु रूपमंशेन केनचित् ॥ अथास्तु युगपद्भासो द्रव्य-पर्याययोः स्फुटम् । तथापि कल्पना नैषा शब्दोल्लेखविवर्जिता ॥ चकास्ति योजितं यत्र सोपाधिकमनेकधा। वस्तु तत् कल्पनाज्ञानं निरंशाप्रतिभासने ॥ भेवज्ञानात् प्रतीयन्ते यथा भेदाः परिस्फुटम् । तथैवाभेदविज्ञानादभेदस्य व्यवस्थितिः॥ घटमौलिसुवर्णेषु बुद्धिर्भेदावभासिनी। संविनिष्ठा हि भावानां स्थितिः काऽत्र विरुद्धता ॥ प्रतीतेस्तु फलं नान्यत् प्रमाणं न ततः परम् । अताद्रूप्येऽपि योग्यत्वानियतार्थस्य वेदकम् ॥ ॥ प्रत्यक्षपरिच्छेदः॥ ३. अनुमानपरिच्छेदः। पूर्वमेव परोक्षस्य विषयः प्रतिपादितः। प्रमाणफलसद्भावो ज्ञेयः प्रत्यक्षवहुधैः॥ परोक्षं द्विविधं प्राहुर्लिङ्ग-शब्दसमुद्भवम् ।। लैङ्गिकात् प्रत्यभिज्ञादि भिन्नमन्ये प्रचक्षते ॥ १. 'शूनां संग्रहे मु०। २. कल्पमानैषा ब०। ३. वेदनम् ब०। ४. अ० प्रतौ नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001047
Book TitleNyayavatarvartik Vrutti
Original Sutra AuthorSiddhasen Divakarsuri
AuthorShantyasuri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year2002
Total Pages525
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Nyay, Philosophy, P000, & P010
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy