________________
श्रीशाम्त्याचार्यविरचितं न्यायावतारसूत्रवार्तिकम् ।
परोपदेशजं श्रीतं मतिं शेषं जगुर्जिनाः । परोक्षं प्रत्यभिज्ञादि त्रिधा श्रौतं न युक्तिमत् ॥ अन्यथेहादिकं सर्व श्रीतमेवं प्रसज्यते । यो नागमापेक्षं मानं तज्जाज्जृम्भितम् ॥ लिङ्गालिङ्गिनि यज् ज्ञानमनुमानं तदेकधा । प्रत्येति हि यथा वादी प्रतिवाद्यपि तत् तथा ॥ उपचारेण चेत् तत् स्यादनवस्था प्रसज्यते । अन्यस्यासाघनादाह लक्षणे हेतु-साध्ययोः ॥ 'अन्यथाऽनुपपन्नत्वं यत्र तत्र श्रयेण किम् । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ॥' कार्यकारणसङ्गावस्तादात्म्यं चेत् प्रतीयते । प्रत्यक्षपूर्वकात् तर्कात् कथं नानुपपक्षता ॥ व्यतिरेकाऽनुपपत्तिश्चेवन्वयनिबन्धनम् । कथं संवं विना तेन क्षणिकत्वप्रसाधकैम् ॥ विनाप्यन्वयमात्मादौ प्राणादिः साधनं यदा । तदा स्यानान्वयापेक्षा हेतोः साध्यस्य साधने ॥ संबन्धिभ्यां विभिन्नश्चेत् संबन्धः स्यान्न, लोष्टवत् । अनवस्था प्रसज्येत तदन्यपरिकल्पने ॥ कृत्तिकोदय पूरादेः कालादिपरिकल्पनात् । यदि स्यात् पक्षधर्मत्वं चाक्षुषत्वं न किं ध्वनौ ॥ समानपरिणामस्य द्वयस्य नियमग्रहे । नाशक्तिर्न च वैफल्यं साधनस्य प्रसज्यते ॥
Jain Education International
इष्टं साधयितुं शक्यं वादिना साध्यमन्यथा । साध्याभासमशक्यत्वात् साधनागोचरत्वतः ॥ यथा सर्वगमध्यक्षं बहिरन्तरनात्मकम् । नित्यमेकान्ततः सस्वात् धर्मः प्रेत्यासुखप्रदः ॥ रूपासिद्धितोऽसिद्धो विरुद्धोऽनुपपत्तिमान् । साध्याभावं विना हेतुः व्यभिचारी विपक्षगः ॥
९
For Private & Personal Use Only
३९
४०
४१
४२
४३
४४
४५
४६
४७
%%%
५२
• १ मेव प्र० मु० । २. व्यतिरेकोऽनु ब० अ० । ३. बन्धना अ० क० । ४. कथं संबंधिना तेन ब० क० । - ५५ °साधनम् ब० । ६. प्राणादि सा० मु० । ७. 'समसाध्यलात् मु० । ८. प्रेमदुःखाप्रदः सु० ।
न्या० २
४८ 20
४९
5
15
www.jainelibrary.org