________________
श्रीशान्त्याचार्यविरचितं न्यायावतारसूत्र वार्तिकम् ।
नं, नास्तीति यतो ज्ञानं नाध्यक्षोद्भिन्नगोचरम् । अभावोऽपि च नैवास्ति प्रमेयो वस्तुनः पृथक् ॥ प्रत्यक्षं विशेदं ज्ञानं त्रिधेन्द्रियमनिन्द्रियम् । योगजं चेति वैशद्यमिदन्त्वेनावभासनम् ॥ जीवांशात् कर्मनिर्मुक्तादिन्द्रियाण्यधितिष्ठतः । जातमिन्द्रियजं ज्ञानं विनेन्द्रियमनिन्द्रियम् ॥
Jain Education International
स्मृत्यूहादिकमित्येके प्रातिभं च तथाऽपरे । स्वमविज्ञानमित्यन्ये खसंवेदनमेव नः ॥ मनःसंज्ञस्य जीवस्य ज्ञानावृर्तिशमक्षयौ । यतश्चित्रौ ततो ज्ञानयोगपद्यं न दुष्यति ॥ जिनस्यांशेषु सर्वेषु कर्मणः प्रक्षयेऽक्रमम् । ज्ञानदर्शनमन्येषां न तथेत्यागमावधः ॥ तत्रेन्द्रियजमध्यक्षमेकांशव्यवसायकम् । वेदनं च परोक्षं च योगजं तु तदन्यथा ॥ द्रव्यपर्यायसामान्यविशेषास्तस्य गोचराः । अविस्पष्टास्तयेव स्युरनध्यक्षस्य गोचराः ॥ न जडस्थावभासोऽस्ति भेदाभेदविकल्पनात् । न भिनविषयं ज्ञानं शून्यं वा यदि वा ततः ॥ ज्ञानशून्यर्वतो नास्ति निरासेऽर्थस्य साधनम् । संविसिद्धप्रतिक्षेपे कथं स्यात् तद्व्यवस्थितिः ॥ पर्यस्यन्ति पर्याया द्रव्यं द्रवति सर्वदा । सदृशः परिणामो यः तत् सामान्यं द्विधा स्थितम् ॥ विपरीतो विशेष तान्युगपद् व्यवस्यति । तेन तत्कल्पनाज्ञानं न तु शब्दार्थयोजनात् ॥ निरंशपरमाणूनामभासे स्थौल्यवेदने । प्रत्यक्षं कल्पनायुक्तं प्रत्यक्षेणैव सिध्यति ॥
१६
For Private & Personal Use Only
१७
१८
१९
१०
२१
२२
२३
१४
२५०
२६
२८
१. नानास्ती मु० । २. 'ध्यक्ष मिन ब० । ३ अभावेऽपि मु० । ४. वस्तुतः अ० । ५. विशदज्ञानं अ० क० मु० । ६. मनैन्द्रि° मु० । ७. ज्ञातमि ब० । ज्ञानमि' मु० । ८. वृत्तिश० मु० । ९. इदं कारिकार्ध ज्ञानं ब० । मुद्रितपुस्तके उद्धृतं नास्ति सं० । १०. 'शुनवतोर्नास्ति अ० मु० । ११. पर्यवस्य ८० मु० । १२. विशेषस्तु मु० ।
२७
1.4
25
www.jainelibrary.org