SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ श्रीशान्त्याचार्यविरचितं न्यायावतारसूत्रवार्तिकम् । वचसोऽपौरुषेयत्वं नाऽविशेषात् पटाविवत् । खरूपेण विशेषेण न सिद्धं भूधरादिषु ॥ विरुद्धं चेष्टघातेन न कार्य कर्तृसाधनम् । प्रकृतेरन्तरज्ञानं पुंसो नित्यमथाऽन्यथा ॥ नित्यत्वे सर्वदा मोक्षोऽनित्यत्वे न तदुद्भवः। कालवैपुल्ययोग्यत्वकुशलाभ्याससंभवे ॥ आवृतिप्रक्षयाज्ज्ञानं सार्वज्यमुपजायते । सदहेतुकमस्तीह सदैव क्ष्मादितत्त्ववत् ॥ आहारासक्तिचैतन्यं जन्मादौ मध्यवत्तथा। अन्त्यसामध्यवद्धेतुः संपूर्ण कार्यकृत्सवा ॥ ज्योतिः साक्षात्कृतिः कश्चित् संपूर्णस्तत्ववेदने । ॥ सामान्यलक्षणपरिच्छेदः ॥ २. प्रत्यक्षपरिच्छेदः। ज्ञात्रपेक्षं प्रमेयस्य द्वैविध्यं न तु वास्तवम् ॥ दूरासन्नादिभेदेन प्रतिभासं भिनत्ति यत् । तत् प्रत्यक्षं परोक्षं तु ततोऽन्यद् वस्तु कीर्तितम् ॥ तन्निमित्तं द्विधा मानं न त्रिधा नैकधा ततः। सादृश्यं चेत् प्रमेयं स्यात् वैलक्षण्यं न किं तथा ॥ अर्थापत्तेन मानत्वं नियमेन विना कृतम् । प्रमाणपश्चकाभावेऽभावोऽभावेन गम्यते ॥ १. इदं पद्यं मुद्रितपुस्तके उद्धृतं नास्ति सं०। २. वेष्ट सु०। ३. कार्ये मु०। ४. 'प्रकृत्यन्तरविज्ञानम्' इति वृत्तिसंमतः पाठः सं०। प्रकृतेरवरं ज्ञानं मु०। ५. पुंसोऽनित्यलमन्यथा मु० । ६.योगे तु कुश मु० । योग्यत्वं कुश° अ०। ७. संभवः मु०। संभवः अ०। ८. इदं पवं नास्त्युद्धृतं मुद्रितपुस्तके सं०। ९. आहारशक्तिक० । आहाराशक्ति ब०। १०. °सामणिव मु०। ११. इदं पूर्वाध नास्ति उतं मुद्रितपुस्तके सं०। १२. ज्ञानापेक्षं मु०। ज्ञात्रपेक्ष्यं ब०। १३. प्रतिमा दिमिन भ०। १४. च अ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001047
Book TitleNyayavatarvartik Vrutti
Original Sutra AuthorSiddhasen Divakarsuri
AuthorShantyasuri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year2002
Total Pages525
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Nyay, Philosophy, P000, & P010
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy