SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धसेनदिवाकरविरचितं न्यायावतारसूत्रम् । साध्य-साधनयोर्व्याप्तिर्यत्र निश्चीयतेतराम् । साधर्येण च दृष्टान्तः संबन्धस्मरणान्मतः॥ साध्ये निवर्तमाने तु साधनस्याप्यसंभवः । ख्याप्यते यत्र दृष्टान्ते वैध\णेति स स्मृतः॥ अन्तर्व्याप्त्यैव साध्यस्य सिद्धेर्बहिरुदाहृतिः । व्यर्था स्यात् तदसद्भावेऽप्येवं न्यायविदो विदुः॥ प्रतिपाद्यस्य यः सिद्धः पक्षाभासोऽक्षलिङ्गतः। लोक-खवचनाभ्यां च बाधितोऽनेकधा मतः॥ अन्यथानुपपन्नत्वं हेतोर्लक्षणमीरितम् । तदप्रतीतिसंदेहविपर्यासैस्तदाभता ॥ असिद्धस्त्वप्रतीतो यो योऽन्यथैवोपपद्यते । विरुद्धो योऽन्यथाप्यत्र युक्तोऽनैकान्तिकः स तु॥ साधर्येणात्र दृष्टान्तदोषा न्यायविदीरिताः । अपलक्षणहेतूत्थाः साध्यादिविकलादयः॥ वैधम्र्येणात्र दृष्टान्तदोषा न्यायविदीरिताः । साध्य-साधनयुग्मानामनिवृत्तेश्च संशयात् ॥ वाधक्त साधने प्रोक्तदोषाणामुहावनम् । दूषणं निरवचे तु दूषणाभासनामकम् ॥ सकलावरणमुक्तात्म केवलं यत् प्रकाशते । प्रत्यक्षं सकलात्मसततप्रतिभासनम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001047
Book TitleNyayavatarvartik Vrutti
Original Sutra AuthorSiddhasen Divakarsuri
AuthorShantyasuri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year2002
Total Pages525
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Nyay, Philosophy, P000, & P010
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy