________________
श्रीसिद्धसेनदिवाकरविरचितं न्यायावतारसूत्रम् । प्रमाणस्य फलं साक्षादज्ञानविनिवर्तनम् । केवलस्य सुखोपेक्षे शेषस्यादानहानधीः ॥
अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम् । एकदेशविशिष्टोऽर्थो नयस्य विषयो मतः॥
नयानामेकनिष्ठानां प्रवृत्तेः श्रुतवम॑नि । संपूर्णार्थविनिश्चायि स्याद्वादश्रुतमुच्यते ॥
प्रमाता स्वान्यनिर्भासी कर्ता भोक्ता विवृत्तिमान् । खसंवेदनसंसिद्धो जीवः क्षित्याधनात्मकः ॥
प्रमाणादिव्यवस्थेयमनादिनिधनात्मिका । सर्वसंव्यवहर्तृणां प्रसिद्धापि प्रकीर्तिता ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org