SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धसेनदिवाकरविरचितं न्यायावतारसूत्रम् । दृष्टेष्टाव्याहताद् वाक्यात् परमार्थाभिधायिनः । तत्त्वग्राहितयोत्पन्नं मान शाब्दं प्रकीर्तितम् ॥ आप्तोपज्ञमनुल्लङ्घयमदृष्टेष्टविरोधकम् । तत्त्वोपदेशकृत सार्व शास्त्रं कापथघट्टनम् ॥ खनिश्चयवदन्येषां निश्चयोत्पादनं बुधैः । परार्थ मानमाख्यातं वाक्यं तदुपचारतः ॥ प्रत्यक्षेणानुमानेन प्रसिद्धार्थप्रकाशनात् । परस्य तदुपायत्वात् परार्थत्वं द्वयोरपि ॥ प्रत्यक्षप्रतिपन्नार्थप्रतिपादि च यद्वचः । प्रत्यक्षं प्रतिभासस्य निमित्तत्वात् तदुच्यते ॥ साध्याविनाभुवो हेतोर्वचो यत् प्रतिपादकम् । परार्थमनुमानं तत् पक्षादिवचनात्मकम् ॥ साध्याभ्युपगमः पक्षः प्रत्यक्षाधनिराकृतः। तत्प्रयोगोऽत्र कर्तव्यो हेतोर्गोचरदीपकः॥ अन्यथा वाद्यभिप्रेतहेतुगोचरमोहिनः। प्रत्याय्यस्य भवेत् हेतुर्विरुद्धारेकितो यथा ॥ धानुष्कगुणसंप्रेक्षिजनस्य परिविध्यतः। धानुष्कस्य विना लक्ष्यनिर्देशेन गुणेतरौ ॥ हतोस्तथोपपत्त्या वा स्यात् प्रयोगोऽन्यथापि वा। द्विविधोऽन्यतरेणापि साध्यसिद्धिर्भवेदिति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001047
Book TitleNyayavatarvartik Vrutti
Original Sutra AuthorSiddhasen Divakarsuri
AuthorShantyasuri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year2002
Total Pages525
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Nyay, Philosophy, P000, & P010
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy