________________
Jain Education International
श्रीसिद्धसेनदिवाकरविरचितं
न्यायावतारसूत्रम् 1
प्रमाणं खपराभासि ज्ञानं बाघविवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्वयात् ॥
प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः । प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् ॥
प्रसिद्धानां प्रमाणानां लक्षणोक्तौ प्रयोजनम् । तद्व्यामोहनिवृत्तिः स्याद् व्यामूढमनसामिह ॥
अपरोक्षतयार्थस्य ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरज्ज्ञेयं परोक्षं ग्रहणेक्षया ॥
साध्याविनामुनो लिङ्गात् साध्यनिश्चायकं स्मृतम् । अनुमानं तदभ्रान्तं प्रमाणत्वात् समक्षवत् ॥
न प्रत्यक्षमपि भ्रान्तं प्रमाणत्वविनिश्वयात् । भ्रान्तं प्रमाणमित्येतद् विरुद्धं वचनं यतः ॥
सकलप्रतिभासस्य भ्रान्तत्वासिद्धितः स्फुटम् । प्रमाणं स्वान्यनिश्चायि द्वयसिद्धौ प्रसिति ॥
For Private & Personal Use Only
$19
www.jainelibrary.org