________________
[सू० ५४५]
सप्तममध्ययनं सप्तस्थानकम् । अल्पशब्दोऽभाववाचकः, निर्लेपं पृथुकादि गृह्णतश्चतुर्थी । अवगृहीता नाम भोजनकाले शरावादिषूपहृतमेव भोजनजातं यत् ततो गृह्णत: पञ्चमी । प्रगृहीता नाम भोजनवेलायां दातुमभ्युद्यतेन करादिना प्रगृहीतं यद्भोजनजातं भोक्तुं वा स्वहस्तादिना तद् गृह्णत इति षष्ठी। उज्झितधा नाम यत् परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नावकाङ्क्षन्ति तदर्द्धत्यक्तं वा गृह्णत इति हृदयं सप्तमीति । पानकैषणा एता एव, नवरं चतुर्थ्यां 5 नानात्वम्, तत्र ह्यायाम-सौवीरकादि निर्लेपं विज्ञेयमिति ।
उग्गहपडिम त्ति, अवगृह्यत इत्यवग्रहो वसतिः, तत्प्रतिमाः अभिग्रहा अवग्रहप्रतिमाः, तत्र पूर्वमेव विचिन्त्यैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूत इति तमेव याचित्वा गृह्णत: प्रथमा । तथा यस्य भिक्षोरेवंभूतोऽभिग्रहो भवति, तद्यथा- अहं च खल्वेषां साधूनां कृते अवग्रहं ग्रहीष्यामि, अन्येषां चावग्रहे गृहीते सति वत्स्यामीति 10 तस्य द्वितीया । प्रथमा सामान्येन, इयं तु गच्छान्तर्गतानां सम्भोगिकानामसम्भोगिकानां चोद्युक्तविहारिणाम्, यतस्तेऽन्योन्यार्थं याचन्त इति । तृतीया त्वियम्- अन्यार्थमवग्रहं याचिष्ये अन्यावगृहीतायां तु न स्थास्यामीति, एषा त्वहालन्दिकानाम्, यतस्ते सूत्रावशेषमाचार्यादभिकाङ्क्षन्त: आचार्यार्थं तां याचन्त इति । चतुर्थी पुनरहमन्येषां कृते अवग्रहं न याचिष्ये अन्यावगृहीते तु वत्स्यामीति, इयं तु गच्छ एव अभ्युद्यतविहारिणां 15 जिनकल्पाद्यर्थं परिकर्म कुर्वताम् । पञ्चमी तु अहमात्मकृते अवग्रहमवग्रहीष्यामि न चापरेषां द्वि-त्रि-चतुः-पञ्चानामिति, इयं तु जिनकल्पिकस्येति । षष्ठी पुनर्यदीयमवग्रहं ग्रहीष्यामि तदीयमेव चेत् कटादिसंस्तारकं ग्रहीष्यामि, इतरथोत्कुटुको वा निषण्ण उपविष्टो वा रजनीं गमिष्यामीत्येषाऽपि जिनकल्पिकादेरिति । सप्तमी एषैव पूर्वोक्ता, नवरं यथाऽऽस्तृतमेव शिलादिकं ग्रहीष्यामि नेतरदिति । अयं च सूत्रत्रयार्थः क्वचित् 20 सूत्रपुस्तक एव दृश्यत इति । __ सत्त सत्तिक्कय त्ति, अनुद्देशकतयैकसरत्वेन एकका: अध्ययनविशेषा आचाराङ्गस्य द्वितीयश्रुतस्कन्धे द्वितीयचूडारूपाः, ते च समुदायत: सप्तेति कृत्वा सप्तैकका अभिधीयन्ते, तेषामेकोऽपि सप्तैकक इति व्यपदिश्यते, तथैवनामत्वात्, एवं च ते सप्तेति, तत्र प्रथम: १. "त्कुटको जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org