SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे स्थानसप्तैककः, द्वितीयो नैषेधिकीसप्तैककः, तृतीय उच्चार-प्रश्रवणविधिसप्तैककः, चतुर्थः शब्दसप्तैककः, पञ्चमो रूपसप्तैककः, षष्ठः परक्रियासप्तैककः, सप्तमोऽन्योन्यक्रियासप्तैकक इति । सत्त महज्झयण त्ति सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे महान्ति प्रथमश्रुत5 स्कन्धाध्ययनेभ्यः सकाशाद् ग्रन्थतो बृहन्ति अध्ययनानि महाध्ययनानि तानि च पुण्डरीकम् १, क्रियास्थानम् २, आहारपरिज्ञा ३, प्रत्याख्यानक्रिया ४, अनाचारश्रुतम् ५, आर्द्रककुमारीयम् ६, नालन्दीयम् ७ चेति । सत्तसत्तमि ति सप्त सप्तमानि दिनानि यस्यां सा सप्तसप्तमिका, सा हि सप्तभिर्दिनसप्तकैर्यथोत्तरं वर्द्धमानदत्तिभिर्भवति, तत्र प्रथमे सप्तके प्रतिदिनमेका भक्तस्य 10 पानकस्य चैका दत्तिर्यावत् सप्तमे सप्त दत्तय:, भिक्षुप्रतिमा साध्वभिग्रहविशेष:, सा चैकोनपञ्चाशता रात्रिन्दिवैः अहोरात्रैर्भवति, यतः सप्त सप्तकान्येकोनपञ्चाशदेव स्यादिति, तथा एकेन च षण्णवत्यधिकेन भिक्षाशतेन, यतः प्रथमे सप्तके सप्तैव, द्वितीयादिषु तद्विगुणाद्याः यावत् सप्तमे एकोनपञ्चाशदिति, सर्वाः सङ्कलिताः शतं षण्णवत्यधिकं भवति, भक्तभिक्षाश्चैताः, पानकभिक्षा अप्येतावत्यो न चेह गणिता इति, 15 एतत्स्वरूपमेवम्– ६६२ पडिमा सत्ता सत्त पढमे तत्थ सत्तए । एक्क्कं गिहए भिक्खं बीइए दोन्नि दोन्नि ऊ ॥ एवमेक्क्कियं भिक्खं छुभेज्जेक्वेक्कसत्तए । गिहई अंतिमे जाव सत्त सत्त दिणे दिणे ॥ 20 अहवा एक्केक्कियं दत्तिं जा सत्तेक्क्कसत्तए । आसो अत्थि एसो वि सिंहविक्कमसन्निभो ॥ [ ] इत्यादि । अहासुत्तं ति यथासूत्रं सूत्रानतिक्रमेण, यावत्करणात् अहाअत्थं यथार्थं निर्युक्त्यादिव्याख्यानानतिक्रमेणेत्यर्थः, अहातच्वं यथातत्त्वं सप्तसप्तमिकेत्यभिधानार्थानतिक्रमेण, अन्वर्थसत्यापनेनेत्यर्थः, अहामग्गं मार्गः क्षायोपशमिको 25 भावस्तदनतिक्रमेण, औदयिक भावागमनेनेत्यर्थः, अहाकप्पं यथाकल्पं १. बिईए जे२ । बीए जे१ खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy