SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ६५८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे त्रसत्वेनैव प्रज्ञानात् स्थावरजीवतया तु तेषामनभ्युपगमाच्चेति । इच्चेएहिं ति इति हेतोरेतेषु चतुर्यु जीवनिकायेषु मिथ्यात्वपूर्वो दण्डो हिंसा मिथ्यादण्डस्तं प्रवर्त्तयति, तद्रूपानभिज्ञ: संस्तान् हिनस्ति निद्भुते चेति भाव इति सप्तमं विभङ्गज्ञानमिति ७ । [सू० ५४३] सत्तविधे जोणिसंगहे पन्नत्ते, तंजहा-अंडजा, पोतजा, जराउजा, 5 रसजा, संसेदगा, संमुच्छिमा, उब्भिगा । अंडगा सत्तगतिता सत्तागतिता पन्नत्ता, तंजहा-अंडगे अंडगेसु उववजमाणे अंडतेहिंतो वा पोतजेहिंतो वा जाव उभिएहिंतो वा उववजेजा, से चेव णं से अंडते अंडगत्तं विप्पजहमाणे अंडगत्ताते वा पोतगत्ताते वा जाव उब्भियत्ताते वा गच्छेज्जा । 10 पोतगा सत्तगतिता सत्तागतिता, एवं चेव सत्तण्ह वि गतिरागती भाणियव्वा जाव उब्भिय त्ति । ___ [टी०] मिथ्यादण्डं प्रवर्तयतीत्युक्तम्, दण्डश्च जीवेषु भवतीति योनिसङ्ग्रहतो जीवानाह- सत्तविहेत्यादि, योनिभि: उत्पत्तिस्थानविशेषैर्जीवानां सङ्ग्रहः योनिसङ्ग्रहः, स च सप्तधा, योनिभेदात् सप्तधा जीवा इत्यर्थः, अण्डजा: पक्षि15 मत्स्य-सर्पादयः, पोतं वस्त्रं तद्वज्जाता: पोतादिव वा बोहित्थाज्जाता:, अजरायुवेष्टिता इत्यर्थः, पोतजा: हस्ति-वल्गुलीप्रभृतयः, जरायौ गर्भवेष्टने जाता:, तद्वेष्टिता इत्यर्थः, जरायुजा: मनुष्या गवादयश्च, रसे तीमन-काञ्जिकादौ जाता रसजा:, संस्वेदाज्जाता: संस्वेदजा: यूकादय:, सम्मूर्छन निर्वृत्ता: सम्मूर्छिमा: कृम्यादयः, उद्भिदो भूमिभेदाज्जाता उद्भिज्जा: खञ्जनकादयः । 20 अथाण्डजादीनामेव गत्यागतिप्रतिपादनाय अंडजेत्यादि सूत्रसप्तकम्, तत्र मृतानां सप्त गतयोऽण्डजादियोनिलक्षणा येषां ते सप्तगतयः, सप्तभ्य एवाण्डजादियोनिभ्य आगतिः उत्पत्तिर्येषां ते सप्तागतयः । एवं चेव त्ति यथाऽण्डजानां सप्तविधे गत्यागती भणिते तथा पोतजादिभि: सह सप्तानामप्यण्डजादिजीवभेदानां गतिरागतिश्च भणितव्या जाव उब्भिय त्ति सप्तमसूत्रं यावदिति, शेषं सुगमम् । १. संगधे क० भां० ला० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy