SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ [सू० ५४२] सप्तममध्ययनं सप्तस्थानकम् । ६५७ असारान् पृथक्कृत्येति, अथवा पर्याप्तपुद्गलैरुत्तरवैक्रियशरीरस्यैकत्वं नानात्वं च कर्मतापनं स्पृष्ट्वा प्रारभ्य, तथा स्फुरत् कृत्वा स्फुटं कृत्वा, सम् एकीभावेन वर्तितं सामान्यनिष्पन्नं कृत्वा, निवर्तितं कृत्वा सर्वथा परिसमाप्य, किमुक्तं भवति ? विकुळ वैक्रियं कृत्वा न त्वौदारिकतयेति, तस्येति विभङ्गज्ञानिनो बाह्याभ्यन्तरपुद्गलपर्यादानप्रवृत्तदेवान् पश्यत एवं भवति इति विकल्पो जायते, मुदग्गे त्ति बाह्याभ्यन्तरपुद्गलरचितशरीरो जीव इति 5 ४ । अथापरं पञ्चमम्, तत्र बाह्याभ्यन्तरान् पुद्गलान् अपर्यादायेत्यत्र निषेधस्य वैक्रियसमुद्घातापेक्षित्वादुत्पत्तिक्षेत्रस्थांस्तूत्पत्तिकाले गृहीत्वा भवधारणीयशरीरस्यैकत्वमेकदेवापेक्षया कण्ठाद्यवयवापेक्षया वा नानात्वं त्वनेकदेवापेक्षया हस्ताङ्गुल्याद्यवयवापेक्षया वा विकुळ स्थातुं प्रवृत्तानित्यादि, शेषं प्राग्वत्, बाह्यपुद्गलपर्यादानं हि विनोत्तरवैक्रियैकत्व-नानात्वे किल न भवत इति भवधारणीय- 10 मिहाधिकृतम्, तदेवमबाह्याभ्यन्तरपुद्गलरचितशरीरदेवदर्शनात्तस्यैवं विकल्पो भवति- अमुदग्गे त्ति अबाह्याभ्यन्तरपुद्गलरचितावयवशरीरो जीव इति ५ । रूविं जीवे त्ति पुद्गलानां पर्यादानेऽपर्यादाने च वैक्रियरूपस्यैकानेकरूपस्य देवेषु दर्शनाद्रूपवानेव जीव इत्यवसायो जायते, तस्य अरूपस्य कदाचनाप्यदर्शनादिति ६ । सुहुमेत्यादि सूक्ष्मेण मन्देन, न तु सूक्ष्मनामकर्मोदयवर्त्तिना, तस्य वस्तुचलनासमर्थत्वात्, फुडं ति 15 स्पृष्टं पुद्गलकायं पुद्गलराशिम् एयंतं ति एजमानं कम्पमानं व्येजमानं विशेषेण कम्पमानं चलन्तं स्वस्थानादन्यत्र गच्छन्तं क्षुभ्यन्तम् अधो निमज्जन्तं स्पन्दन्तम् ईषच्चलन्तं घट्टयन्तं वस्त्वन्तरं स्पृशन्तमुदीरयन्तं प्रेरयन्तं तं तमनाख्येयमनेकविधं भावं पर्याय परिणमन्तं गच्छन्तम् । सव्वमिणं ति सर्वमिदं चलत् पुद्गलजातं जीवा: स्पन्दनलक्षणजीवधर्मोपेतत्वात्, यच्च चलदपि श्रमणादयो जीवाश्चाजीवाश्चेति प्राहु: 20 तन्मिथ्येति तदध्यवसाय इति, तस्स णं ति तस्य विभङ्गज्ञानवत: इमे त्ति वक्ष्यमाणाः, न सम्यगुपगता: अचलनावस्थायां जीवत्वेन न बोधविषयीभूताः, तद्यथापृथिव्यप्तेजोवायवः, चलन-दोहदादिधर्मवतां त्रसानामेव दोहदादित्रसधर्मवतां वनस्पतीनामेव च जीवतया प्रज्ञानात्, पृथिव्यांदीनां तु वायुचलनेन स्वतश्चलनेन च १. निर्वर्तितं खं० पासू० ॥ २. रूवीं पा० जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy