________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे तत्थेत्यादि त्वेतस्यैव विवरणवचनमुत्तानार्थमेव, नवरं तत्थ त्ति तेषु सप्तसु मध्ये जया णं ति यस्मिन् काले से णं ति इह तदेति गम्यते स विभंगी पासइ त्ति उपलक्षणत्वाज्जानातीति च, अन्यथा ज्ञानत्वं विभङ्गस्य न स्यादिति, पाईणं वेत्यादौ
वा विकल्पार्थः, उड्ढं जाव सोहम्मो कप्पो इत्यनेन सौधर्मात परतः किल प्रायो 5 बालतपस्विनो न पश्यन्तीति दर्शितम्, तथाऽवधिमतोऽप्यधोलोको दुरधिगमो विभङ्गज्ञानिनस्तु सुतरामित्यधोदिग्दर्शनमिह नाभिहितम्, दुरधिगम्यता चाधोलोकस्य त्रिस्थानकेऽभिहितेति, एवं भवइ त्ति एवंविधो विकल्पो भवति, यदुत- अस्ति मे अतिशेषं शेषाण्यतिक्रान्तं सातिशयमित्यर्थो ज्ञानं च दर्शनं च ज्ञानेन वा दर्शनं ज्ञानदर्शनम्, ततश्चैकदिशो दर्शनेन तत्रैव लोकस्योपलम्भादाह- एकदिशि लोकाभिगम 10 इति, एकदिग्मात्र एव लोकस्तथोपलम्भादिति भावः, सन्ति विद्यन्ते एकके श्रमणा
वा ब्राह्मणा वा, ते चैवमाहुः- अन्यास्वपि पञ्चसु दिक्षु लोकाभिगमो भवति, तास्वपि तस्य विद्यमानत्वात्, ये ते एवमाहुः यदुत- पञ्चस्वपि दिक्षु लोकाभिगमो मिथ्या ते एवमाहुरिति प्रथमं विभङ्गज्ञानमिति १॥ अथापरं द्वितीयम्, तत्र पाईणं
वेत्यादौ वाशब्दश्चकारार्थो द्रष्टव्यः, विकल्पार्थत्वे तु पञ्चानां दिशां पश्यत्ता न गम्यते, 15 एकस्या एव च गम्यते, तथा च प्रथम-द्वितीययोर्विभङ्गयोर्भेदो न स्यादिति, क्वचिद्
वाशब्दा न दृश्यन्त एवेति २ । प्राणानतिपातयमानानित्यादिषु जीवानिति गम्यते, नो किरियावरणे त्ति अपि तु कर्मावरण इति ३ । देवामेव त्ति देवानेव भवनवास्यादीनेव बाहिरब्भंतरे त्ति बाह्यान् शरीरावगाहक्षेत्राद् अभ्यन्तरान् अवगाहक्षेत्रस्थान् पुद्गलान्
वैक्रियवर्गणारूपान् पर्यादाय परि समन्तात् वैक्रियसमुद्घातेनाऽऽदाय गृहीत्वा, पुढेगत्तं 20 ति पृथक्काल-देशभेदेन कदाचित् क्वचिदित्यर्थः, एकत्वम् एकरूपत्वं नानात्वं नानारूपत्वं विकृत्य उत्तरवैक्रियतया चितॄत्तए त्ति स्थातुम् आसितुं प्रवृत्तानिति वाक्यशेष इति सम्बन्धः, कथं विकृत्येत्याह- फुसित्ता तानेव पुद्गलान् स्पृष्ट्वा, तथाऽऽत्मना स्फुरित्वा वीर्यमुल्लास्य पुद्गलान् वा स्फोरयित्वा, तथा स्फुटित्वा प्रकाशीभूय, पुद्गलान् वा स्फोटयित्वा, वाचनान्तरे तु पदद्वयमपरमुपलभ्यते, तत्र संवर्त्य सारानेकीकृत्य निवर्त्य १. सू० २१३ ॥ २. तथापरं जे१ ॥ ३. °ल्पार्थे तु जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org