________________
[सू० ५४२] सप्तममध्ययनं सप्तस्थानकम् ।
६५५ वा विभंगणाणे समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं पासति सुहमेणं वायुकातेणं फुडं पोग्गलकायं एतंतं वेतंतं चलंतं खुब्भंतं फंदंतं घटुंतं उदीरेतं तं तं भावं परिणमंतं, तस्स णमेवं भवति-अत्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने- सव्वमिणं जीवा, संतेगतिता समणा वा माहणा वा एवमाहंसु-जीवा चेव अजीवा चेव, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, 5 तस्स णमिमे चत्तारि जीवनिकाया णो सम्ममुवगता भवंति, तंजहा-पुढविकाइया जाव वाउकाइया, इच्चेतेहिं चउहिं जीवनिकाएहिं मिच्छादंडं पवत्तेइ, सत्तमे विभंगणाणे ।
[टी०] एवं श्रद्धानस्थैर्याद्यर्थमन्यथा वा गणादपक्रान्तस्य कस्यापि विभङ्गज्ञानं स्यादिति तस्य भेदानाह- सत्तविहेत्यादि, सप्तविधं सप्तप्रकारं विरुद्धो वितथो वा अयथा 10 वस्तुभङ्गो वस्तुविकल्पो यस्मिंस्तद्विभङ्गं तच्च तज्ज्ञानं च साकारत्वादिति विभङ्गज्ञानं मिथ्यात्वसहितावधिरित्यर्थः, एगदिसिं ति एकस्यां दिशि, एकया दिशा पूर्वादिकयेत्यर्थः, लोकाभिगमो लोकावबोध इत्येकं विभङ्गज्ञानम्, विभङ्गता चास्य शेषदिक्षु लोकस्यानभिगमेन तत्प्रतिषेधनादिति १ । तथा पञ्चसु दिक्षु लोकाभिगमो नैकस्यां कस्यांचिदिति, इहापि विभङ्गता एकदिशि लोकनिषेधादिति २ । क्रियामात्रस्यैव 15 प्राणातिपातादेर्जीवै: क्रियमाणस्य दर्शनात्तद्धेतुकर्मणश्चादर्शनात् क्रियैवावरणं कर्म यस्य स क्रियावरणः, कोऽसौ? जीव इत्यवष्टम्भपरं यद्विभङ्गं तत्तृतीयम्, विभङ्गता चास्य कर्मणोऽदर्शनेनानभ्युपगमादेवमुत्तरत्रापि विभङ्गताऽवसेयेति ३ । मुयग्गे त्ति बाह्याभ्यन्तरपुद्गलरचितशरीरो जीव इत्यवष्टम्भवत्, भवनपत्यादिदेवानां बाह्याभ्यन्तरपुद्गलपर्यादानतो वैक्रियकरणदर्शनादिति चतुर्थम् ४ । अमुदग्गे जीवे त्ति देवानां 20 बाह्याभ्यन्तरपुद्गलादानविरहेण वैक्रियवतां दर्शनाद् अबाह्याभ्यन्तरपुद्गलरचितावयवशरीरो जीव इत्यवसायवत् पञ्चमम् ५ । तथा रूवी जीवे त्ति देवानां वैक्रियशरीरवतां दर्शनाद् रूप्येव जीव इत्येवमवष्टम्भवत् षष्ठमिति ६ । तथा सव्वमिणं जीव त्ति वायुना चलत: पुद्गलकायस्य दर्शनात् सर्वमेवेदं वस्तु जीवा एव, चलनधर्मोपेतत्वादित्येवं निश्चयवत् सप्तममिति सङ्ग्रहवचनमेतत् ७ । १. वदिति पंचमं जे१ खं० ॥
25
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org