________________
१६४
तृतीयं परिशिष्टम्- टिप्पनानि निस्सग्गरुइ त्ति नायव्वो ॥ एए चेव उ भावे उवइढे जो परेण सहहइ । छउमत्थेण जिणे व उवएसरुइ त्ति नायव्वो ॥ रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ । आणाए रोयंतो सो खलु आणारुई नाम ॥ जो सुत्तमहिजंतो सुएण ओगाहई उ संमत्तं । अंगेण बाहिरेण व सो सुत्तरुइ त्ति नायव्वो ॥ एगेण अणेगाइं पयाइं जो पसरई उ सम्मत्तं ॥ उदयव्व तिल्लबिंदू सो बीयरुइ त्ति नायव्वो ॥ सो होइ अभिगमरुई सुअनाणं जस्स अत्थओ दिटुं। इक्कारस अंगाई पइण्णगं दिट्ठिवाओ य ॥ दव्वाण सव्वभावा सव्वपमाणेहिं जस्स उवलद्धा। सव्वाइं नयविहीहि य वित्थाररुइ त्ति नायव्वो ॥ दंसणनाणचरित्ते तवविणए सच्चसमिइगुत्तीसु। जो किरियाभावरुई सो खलु किरियारुई नाम ॥ अणभिग्गहिय कुदिट्ठी संखेवरुइ त्ति होइ नायव्वो । अविसारओ पवयणे अणभिग्गहिओ अ सेसेसु ॥ जो अत्थिकायधम्मं सुयधम्मं खलु चरित्तधम्मं च । सद्दहइ जिणाभिहियं सो धम्मरुइ त्ति नायव्वो ॥२८॥१८-२७॥ ___ यः जिनदृष्टान् तीर्थकरोपलब्धान् भावान् जीवादिपदार्थान् चतुर्विधान् द्रव्यक्षेत्रकालभावभेदतो नामादिभेदतो वा चतुष्प्रकारान् श्रद्दधाति तथेति प्रतिपद्यते स्वयमेव परोपदेशं विना, श्रद्धानोल्लेखमाहएमेय त्ति एवमेतद्यथा जिनैदृष्टं जीवादि, नान्यथेति नैतद्विपरीतम्, च: समुच्चये, स ईदृग्निसर्गरुचिरिति ज्ञातव्यः, निसर्गेण रुचिरस्येतिकृत्वा, उपदेशरुचिमाह- एतांश्चैवानन्तरोक्तान् भावान् जीवादीन् पदार्थान् उपदिष्टान् कथितान् परेण अन्येन श्रद्दधाति, कीदृशा परेण ?- छादयतीति छद्म घातिकर्मचतुष्टयं तत्र तिष्ठति छद्मस्थः अनुत्पन्नकेवलस्तेन, जयति रागादीनिति जिनः, औणादिको नक् तेन चोत्पन्नकेवलज्ञानेन तीर्थकृदादिना, छद्मस्थस्य तु प्रागुपन्यासस्तत्पूर्वकत्वाज्जिनस्य प्राचुर्येण वा तथाविधोपदेष्ट्टणाम्, स ईदृक् किमित्याह-उपदेशरुचिरिति ज्ञातव्यः उपदेशेन रुचिरस्येति हेतोः ।
आज्ञारुचिमाह- रागः अभिष्वङ्गः द्वेषः अप्रीतिः मोहः शेषमोहनीयप्रकृतयः अज्ञानं मिथ्याज्ञानरूपं यस्य अपगतं नष्टं भवति, सर्वथा चास्यैतदपगमासम्भवाद्देशत इति गम्यते, अपगतशब्दश्च लिङ्गविपरिणामतो रागादिभिः प्रत्येकमभिसंबध्यते, एतदपगमाच्च आणाए त्ति अवधारणफलत्वाद्वाक्यस्य आज्ञयैव आचार्यादिसम्बन्धिन्या रोचमानः क्वचित्कुग्रहाभावाज्जीवादि तथेति प्रतिपद्यमानो माषतुषादिवत् सः खलु निश्चितमाज्ञारुचिर्नामेत्यभ्युपगमे, ततश्चाज्ञारुचिरित्यभ्युपगन्तव्यः, आज्ञया रुचिरस्य यतः। ___ सूत्ररुचिमाह-यः सूत्रम् आगमम् । अधीयानः पठन् श्रुतेन इति सूत्रेणाधीयमानेन अवगाहते प्राप्नोति तुः पूरणे सम्यक्त्वम्, कीदृशा श्रुतेन ?- अङ्गेन आचारादिना बाह्येन अनङ्गप्रविष्टेनोत्तराध्ययनादिना वा, वा विकल्पे, सः उक्तलक्षणो गोविन्दवाचकवत्, सूत्ररुचिरिति ज्ञातव्यः, सूत्रहेतुकत्वादस्य रूचेः ।।
बीजरुचिमाह-एकेन प्रक्रमात् पदेन जीवादिना अणेगाइं पयाई ति सुब्व्यत्ययाद् अनेकेषु बहुषु पदेषु जीवादिषु यः प्रसरति व्यापितया गच्छति तुः एवकारार्थः, प्रसरत्येव, सम्यक्त्वमित्यनेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org