SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ तृतीयं परिशिष्टम्- टिप्पनानि १६५ रुचिरत्रोपलक्षिता, तदभेदोपचारादात्माऽपि सम्यक्त्वमुच्यते, उपचारनिमित्तं च रुचिरूपेणैवात्मना प्रसरणम्, क्वेव कः पसरति ?- उदक इव तैलबिन्दुः यथोदकैकदेशगतोऽपि तैलबिन्दुः समस्तमुदकमाक्रामति तथा तत्त्वैकदेशोत्पन्नरुचिरप्यात्मा तथाविधक्षयोपशमवशादशेषतत्त्वेषु रुचिमान् भवति, स एवंविधो बीजरुचितिव्यः, यथा हि बीजं क्रमेणानेकबीजानां जनकमेवमस्यापि रुचिर्विषयभेदतो भिन्नानां रुच्यन्तराणामिति । अभिगमरुचिमाह- स भवत्यभिगमरुचिः श्रुतज्ञानं येनार्थ्यत इत्यर्थः अभिधेयस्तमाश्रित्य दृष्टम् उपलब्धम्, किमुक्तं भवति ? येन श्रुतज्ञानस्यार्थोऽधिगतो भवति, किं पुनस्तत् श्रुतज्ञानमित्याहएकादशाङ्गानि आचारादीनि, प्रकीर्णकमिति जातावेकवचनम्, ततः प्रकीर्णकानि उत्तराध्ययनादीनि, दृष्टिवादः परिकर्मसूत्रादि, अङ्गत्वेऽपि पृथगुपादानमस्य प्राधान्यख्यापनार्थम्, चशब्दादुपाङ्गान्यौपपातिकादीनि, अभिगमान्वितत्वादस्य रुचेः ।। विस्ताररुचिमाह- द्रव्याणां धर्मास्तिकायादीनां सर्वभावा: एकत्वपृथक्त्वाद्यशेषपर्यायाः सर्वप्रमाणैः अशेषैः प्रत्यक्षादिभिर्यस्योपलब्धाः, यस्य तत्र व्यापारस्तेनैव प्रमाणेन प्रतीताः, सव्वाहिं ति सर्वैः समस्तैः नयविधिभिः नैगमादिभेदैरमुं भावमयममुं वाऽयं नयभेद इच्छतीति, च: समुच्चये स ईदृग् विस्ताररुचिरिति ज्ञातव्यः, विस्तारविषयत्वेन ज्ञानस्य रुचेरपि तद्विषयत्वादस्य ज्ञानपूर्विका हि रुचिः, यत उक्तम्- सद्दहइ जाणति जतो । . क्रियारुचिमाह- दर्शनं च ज्ञानं च चरित्रं च दर्शनज्ञानचरित्रं तस्मिन् प्रागुक्तरूपे तथा तपोविनये सत्याः निरुपचरितास्ताश्च ताः समितिगुप्तयश्च, यदिवा सत्यं च अविसंवादनयोगाद्यात्मकं समितिगुप्तयश्च सत्यसमितिगुप्तयस्तासु यः क्रियाभावरुचिः, किमुक्तं भवति ? दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्ति सः खलु निश्चितं क्रियारुचिः, नामेति प्रकाशम्, भण्यत इति शेषः, इह च चारित्रान्तर्गतत्वेऽपि तपःप्रभृतीनां पुनरुपादानं विशेषत एषां मुक्त्यङ्गत्वख्यापनार्थम् । सङ्क्षपरुचिमाह-अनभिगृहीता अनङ्गीकृता कुदृष्टिः सौगतमतादिरूपा येन स तथा सक्षेपरुचिरिति भवति ज्ञातव्यः, अविशारदः अकुशलः प्रवचने सर्वज्ञशासने अणभिग्गहिओ य सेसेसु त्ति अविद्यमानमभीति आभिमुख्येन गृहीतं ग्रहणं-ज्ञानमस्येत्यनभिगृहीत: अनभिज्ञ इत्यर्थः, चः समुच्चये, अनभिगृहीतश्च क्वे त्याह-शेषेषु कपिलादिप्रणीतप्रवचनेषु, संभवति हि जिनप्रवचनानभिज्ञोऽपि शेषप्रवचनानभिज्ञ इति तद्व्यवच्छेदार्थमेतत्, अयमाशयः- य उक्तविशेषणः सक्षेपेणैव चिलातीपुत्रवत्प्रशमादिपदत्रयेण तत्त्वरूचिमवाप्नोति स सङ्क्षपरुचिरुच्यते । धर्मरुचिमाह- योऽस्तिकायानां धर्मादीनां धर्मो गत्युपष्टम्भादिरस्तिकायधर्मस्तं जातावेकवचनम्, श्रुतधर्मम् अङ्गप्रविष्टाद्यागमस्वरूपं खलुः वाक्यालङ्कारे चरित्रधर्मं वा सामायिकादि, वस्य चार्थत्वात्, श्रद्दधाति तथेति प्रतिपद्यते जिनाभिहितं तीर्थकृदुक्तं स धर्मरुचिरिति ज्ञातव्यः, धर्मेषु पर्यायेषु धर्मे वा श्रुतधर्मादौ रुचिरस्येतिकृत्वा, शिष्यमतिव्युत्पादनार्थं चेत्थमुपाधिभेदेन सम्यक्त्वभेदाभिधानम्, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy