________________
१३२
तृतीयं परिशिष्टम्- टिप्पनानि
सेहनिमित्तं, अभओ भणइ-अच्छह वीसत्था, अहमेयं लोगं उवाएण निवारेमि, ठिओ आयरिओ। बिइए दिवसे तिण्णि रयणकोडीओ ठवियाओ, उग्घोसावियं नगरे-जहा अभओ दाणं देइ, लोगो आगओ, भणियं चऽणेण-तस्साहं एयाओ तिण्णि कोडिओ देमि जो एयाइं तिण्णि परिहरइ-अग्गिं पाणियं महिलियं च, लोगो भणइ-एएहिं विणा किं सुवन्नकोडिहिं ?, अभओ भणइ-ता किं भणहदमओ त्ति पव्वइओ, जोऽवि णिरत्थओ पव्वइओ तेणवि एयाओ तिण्णि सुवन्नकोडीओ परिच्चत्ताओ, सच्चं सामि ! ठिओ लोगो पत्तीओ। - दशवै० हारि० २॥३॥ [पं०१६] पुष्यचूलाया: कथा- दृश्यतां द्वितीये विभागे प्रथमपरिशिष्टे पृ०७ पं०७ ॥
पं०२०] नन्दिषेणस्य कथा- नंदिषेणस्तयोः सूनुर्बालस्यापि हि तस्य तु । पितरौ तौ विपेदाते मंदभाग्यशिरोमणे: ॥१६|| तुंदिलो दंतुरश्चुल्लश्चतुरस्रशिरास्तथा । कुरूपोऽन्येषु चांगेषु सोऽत्याजि स्वजनैरपि ॥१७॥ जीवन्मूल्येनापरेधुर्जगृहे मातुलेन सः । मातुलस्य तु तस्यासनद्वाह्याः सप्त कन्यकाः ॥१८॥ एकां दास्यामि ते कन्यामित्यूचे मातुलश्च तम् । तद्वेश्मकर्म तल्लोभादशेषं च चकार सः ॥१९॥ तत्राद्या यौवना कन्या तज्ज्ञात्वोवाच मां यदि । प्रदास्यति पितामुष्मै तन्मरिष्यामि निश्चितम् ॥२०॥ शुश्राव नंदिषेणस्तद्विषण्णो मातुलेन तु । ऊचे सुतां द्वितीयां ते दास्ये मा खेदमुबह ॥२१|| श्रुत्वा द्वितीयपुत्र्यापि तद्वच्चक्रे प्रतिश्रवः । अन्यपुत्रीभिरप्येवं प्रतिषिद्धः क्रमेण सः ॥२२॥ ततस्तं मातुलोऽवोचत् पुत्रीमन्यस्य कस्यचित् । याचित्वा ते प्रदास्यामि वत्स मा भूस्त्वमाकुलः ॥२३॥ नंदिषेणस्ततो दध्यौ निजा नेप्संति माममू: । ईप्सिष्यंति कथं त्वन्यकन्या मां रूपदूषितम् ॥२४॥ इति निःसृत्य वैराग्याद्ययौ रत्नपुरे पुरे। दंपतीन् क्रीडतस्तत्र निरीक्ष्य स्वं निनिंद सः ॥२५।। मुमूर्षुः सोऽथ वैराग्याद्ययावुपवनान्तरे। सुस्थितं नाम तत्रर्षि ददर्श प्रणनाम च ॥२६।। ज्ञात्वा ज्ञानेन तद्भावं स साधुस्तमवोचत। मा मृत्युसाहसं कार्षीरधर्मस्य फलं ह्यदः ॥२७॥ कार्यः सुखार्थिना धर्म आत्मघातात्सुखं न हि। स तु प्रव्रज्यया धर्मः सुखहेतुर्भवे भवे ।।२८।। श्रुत्वैवं च प्रतिबुद्धस्तत्पादांतेऽग्रहीद् व्रतम्। गीतार्थश्चाभिजग्राह वैयावृत्यं स साधुषु ॥२९॥" - त्रिषष्टि० ८।२ ।
[पृ०८१८] “समनिद्धयाए बंधो न होति समलुक्खयाए वि न होति । वेमायणिद्धलुक्खत्तणेण बंधो उ खंधाणं ॥१३॥४१०॥ वृ० समनिद्धयाए इत्यादि, परस्परं समस्निग्धतायां-समगुणस्निग्धतायां तथा परस्परं समरूक्षतायां समगुणरूक्षतायां बन्धो न भवति, किन्तु यदि परस्परं स्निग्धत्वस्य रूक्षत्वस्य च विषममात्रा भवति तदा बन्धः स्कन्धानामुपजायते, इयमत्र भावना- समगुणस्निग्धस्य परमाण्वादेः समगुणस्निग्धेन परमाण्वादीना सह सम्बन्धो न भवति, तथा समगुणरूक्षस्यापि परमाण्वादेः समगुणरूक्षेण परमाण्वादिना सह सम्बन्धो न भवति, किन्तु यदि स्निग्धः स्निग्धेन रूक्षः रूक्षेण सह विषमगुणो भवति तदा विषममात्रत्वात् भवति तेषां परस्परं सम्बन्धः । ___ निद्धस्स निद्धेण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएणं । निद्धस्स लुक्खेण उवेइ बंधो, जहन्नवज्जो विसमो समो वा ॥१३॥४११॥ वृ० विषममात्रया बन्धो भवतीत्युक्तं ततो
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org