SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ तृतीयं परिशिष्टम् - टिप्पनानि विषममात्रानिरूपणार्थमाह- 'निद्धस्स निद्धेण दुयाहिएणे' त्यादि, यदि स्निग्धस्य परमाण्वादेः स्निग्धगुणेनैव सह परमाण्वादिना बन्धो भवितुमर्हति तदा नियमात् द्व्यादिकाधिकगुणेनैव परमाण्वादिनेति भावः, रूक्षगुणस्यापि परमाण्वादेः रूक्षगुणेन परमाण्वादिना सह यदि बन्धो भवति तदा तस्यापि तेन द्व्याद्यधिकादिगुणेनैव नान्यथा, यदा पुनः स्निग्धरूक्षयोर्बन्धस्तदा कथमिति चेत् ?, अत आह'निद्धस्स लुक्खेणेत्यादि, स्निग्धस्य रूक्षेण सह बन्ध उपैति - उपपद्यते जघन्यवर्जो विषमः समो वा, किमुक्तं भवति ?- एकगुणस्निग्धं एकगुणरूक्षं च मुक्त्वा शेषतुल्यद्विगुणस्निग्धादिद्विगुणरूक्षादिना सर्वेण बन्धो भवतीति । " प्रज्ञापना - १३।४१०-११ ॥ [पृ०८१९] “गुरुयं लहुयं उभयं नोभयमिति वावहारियनयस्स । दव्वं, लेडुं दीवो वाऊ वोमं जहासंखं ।।६५९।। निच्छयओ सव्वगुरुं सव्वलहुं वा न विज्जए दव्वं । बायरमिह गुरुल हुयं अगुरुलहुँ सयं सव्वं ॥ ६६०॥ इह यदूर्ध्वं तिर्यग् वा प्रक्षिप्तमपि पुनर्निसर्गादधो निपतति तद् गुरु द्रव्यम्, यथा लेष्ट्वादि । यत्तु निसर्गत एवोर्ध्वगतिस्वभावं द्रव्यं तल्लघु, यथा दीपकलिकादि । यत्तु नोर्ध्वगतिस्वभावं नाप्यधोगतिस्वभावम्, किं तर्हि ?, स्वभावेनैव तिर्यग्गतिधर्मकं तद् द्रव्यं गुरुलघु, यथा वाय्वादि। यत्पुनरूर्ध्वा ऽधस्तिर्यग्गतिस्वभावानामेकतरस्वभावमपि न भवति, सर्वत्र वा गच्छति तद् गुरुलघु, यथा व्योम - परमाण्वादि । इति व्यावहारिकनयमतम् । निश्चयतस्तु-निश्चयनयमतेन, सर्वगुरु - एकान्तेन गुरुस्वभावं किमपि वस्तु नास्ति, गुरोरपि लेष्ट्वादेः परप्रयोगादूर्ध्वादिगमनदर्शनात् । एकान्तेन लघ्वपि नास्ति, अतिलघोरपि बाष्पादेः करताडनादिनाऽधोगमनादिदर्शनात् । तस्माद् नैकान्तेन गुरु लघु वा किमपि वस्त्वस्ति । अतो निश्चयनयस्येयं परिभाषा-यत् किमप्यत्र लोके औदारिकवर्गणादिकं भू-भूधरादिकं वा बादरं वस्तु तत् सर्वं गुरुलघु, शेषं तु भाषा-ऽऽना-ऽपानमनोवर्गणादिकं परमाणु - द्व्यणुक - व्योमादिकं च सर्व वस्त्वगुरुव ॥६५९-६६०॥” विशेषाव० मलधारि० ॥ - [पृ०८२०] दिसिदाह छिन्नमूलो उक्त सरेहा पगासजुत्ता वा । संझाछेयावरण उजू सुक्क दिण तिनि ॥ १३३५ || व्या० अन्यतमदिगन्तरविभागे महानगरप्रदीप्तमिवोद्योतः किन्तूपरि प्रकाशोऽधस्तादन्धकारः ईदृक् छिन्नमूलो दिग्दाहः, उक्कालक्खणं सदेहवण्णं रेहं करेंती जा पडइ सा उक्का, रेहविरहिया वा उज्जोयं करेंती पडइ सावि उक्का । जूवगो त्ति संझप्पहा चंदप्पहा य जुगवं भवंति तेण वगो, सा य संझप्पहा चंदप्पभावरिया णिप्फिडंती न नज्जइ सुक्कपक्खपडिवगादिसु दिणेसु, संझाछेयए अणज्जमाणे कालवेलं न मुणंति तओ तिन्नि दिणे पाउसियं कालं न गेण्हंति, तिसु दिणेसु पाउसियसुत्तपोरिसिं न करेंति त्ति गाथार्थः ॥१३३५|| Jain Education International १३३ कतिपोरस व भावे सुत्तं तु नंदिमाईयं । सोणिय मंसं चम्मं अट्ठी विय हुंति चत्तारि ।। १३५१ ।। व्या० तिरियमसज्झायं संभवकालाओ जाव तइया पोरुसी ताव असज्झाइयं, परओ सुज्झइ, अहवा अट्ठ जामा असज्झाइयं ति, ते जत्थाघायणट्ठाणं तत्थ भवंति । भावओ For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy