________________
तृतीयं परिशिष्टम्- टिप्पनानि
१३१ श्रान्तं ज्यायांसं भ्रातरं मुनिम् । अमुक्त्वा तदमुं स्थाने न निवर्तितुमुत्सहे ।।३३०॥ माऽसौ वलेदिति मनोव्याक्षेपार्थं कनीयसः । गार्हस्थ्यवार्ता प्राक्रस्त भवदत्तो महामुनिः ॥३३१॥ एते ते ग्रामपर्यन्तपादपाः पान्थमण्डपाः । भ्रातरावां वानरवद्येषु स्वैरमरस्वहि ॥३३२।। सरोवराणि तान्येतान्यावाभ्यां यत्र शैशवे। अकारि नलिनीनालैहरिश्रीः कण्ठयोर्मिथः ॥३३३। एताश्च ग्रामपर्यन्तभूमयो भूरिवालुकाः । यत्रावां वालुकाचैत्यक्रीडां प्रावृष्यकृष्वहि ॥३३४।। भवदत्तोऽनुजन्मानमेवमध्वनि वार्तयन् । जगाम ग्राममाचार्यपादपद्मः पवित्रितम् ॥३३५।। सानुजं भवदत्तर्षि वसतिद्वारमागतम् । निरीक्ष्य क्षुल्लकाः प्रोचुः कृतवक्रोष्ठिका मिथः ॥३३६॥ दिव्यवेषधरो नूनमनुजो मुनिनाऽमुना । प्रव्राजयितुमानीतः स्वं सत्यापयितुं वचः ॥३३७।। सूरिरूचे भवदत्त ! तरुणः कोऽयमागतः । सोऽवदद्भगवन्दीक्षां जिघृक्षुर्मेऽनुजो ह्यसौ ॥३३८॥ सूरिणा भवदेवोऽपि पप्रच्छे किं व्रतार्थ्यसि ? । मा भूद् भ्राता मृषावादीत्येवमित्यवदत्स तु ॥३३९॥ भवदेवस्तदैवाथ पर्यव्राज्यत सूरिभिः । साधुभ्यां सहितोऽन्यत्र विहर्तुं च न्ययोज्यत ॥३४०॥ - परिशिष्टपर्वणि प्रथमसर्गे ।
[पं० १४] शविभूतेः कथा- “रहवीरपुर नगरं दीवगमुजाणमजकण्हे य । सिवभूइस्सुवहिम्मि पुच्छा थेराण कहणा य ॥२५५१॥ बोडियसिवभूईओ बोडियलिंगस्स होइ उप्पत्ती । कोडिन्नकोट्टवीरा परंपराफासमुप्पन्ना ॥२५५२॥ एतद्भावार्थः कथानकगम्यः, तच्चेदम्-रथवीरपुरं नाम नगरम् । तद्बहिश्च दीपकाभिधानमुद्यानम्। तत्र चार्यकृष्णनामानः सूरयः समागताः । तस्मिंश्च नगरे सहस्रमल्लः शिवभूतिर्नाम राजसेवकः समस्ति। स च राजप्रसादाद् विलासान् कुर्वन् नगरमध्ये पर्यटति। रात्रेश्च प्रहरद्वयेऽतिक्रान्ते गृहमागच्छति। तत एतदीयभार्या तन्मातरं भणति-'निर्वेदिताऽहं त्वत्पुत्रेण, न खल्वेष रात्रौ वेलायां कदाचिदप्यागच्छति। तत उज्जागरकेण बुभुक्षया च बाध्यमाना प्रत्यहं तिष्ठामि' । ततस्तया प्रोक्तम्-‘वत्से ! यद्येवम्, तर्हि त्वमद्य स्वपिहि, स्वयमेवाहं जागरिष्यामि' । ततः कृतं वध्वा तथैव, इतरस्यास्तु जाग्रत्या रात्रिप्रहरद्वयेऽतिक्रान्ते समागत्य शिवभूतिना प्रोक्तम्'द्वारमुद्घाटयत' । ततः प्रकुपितया मात्रा प्रोक्तम्-'दुर्नयविधे ! यत्रैतस्यां वेलायां द्वाराण्युद्घाटितानि भवन्ति तत्र गच्छ, न पुनरेवं तव पृष्ठलग्नः कोऽप्यत्र मरिष्यति' । ततः कोपा-ऽहङ्काराभ्यां प्रेर्यमाणोऽसौ निर्गतः । पर्यटता चोद्घाटितद्वारः साधूपाश्रयो दृष्टः । तत्र च साधवः कालग्रहणं कुर्वन्ति । तेषां च पार्श्वे तेन वन्दित्वा व्रतं याचितम्। तैश्च ‘राजवल्लभः, मात्रादिभिरमुत्कलितश्च' इति न दत्तम् । ततः खेलमल्लकाद् रक्षां गृहीत्वा स्वयमेव लोचः कृतः । साधुभिर्लिङ्ग समर्पितम् । विहृताश्च सर्वेऽप्यन्यत्र ।” - विशेषाव० मलधारि० ।।।
पं०१४] काष्ठहारकस्य कथा- एगो पुरिसो सुधम्मसामिणो सयासे कट्ठहारओ पव्वइओ, सो भिक्खं हिंडतो लोएण भण्णइ-एसो कट्ठहारओ पव्वइओ, सो सेहत्तेण आयरियं भणइ-ममं अण्णत्थ णेह, अहं न सक्केमि अहियासेत्तए, आयरिएहिं अभओ आपुच्छिओ वच्चामो त्ति, अभओ भणइमासकप्पपाउग्गं खित्तं किं एयं न भवइ? जेण अत्थक्के अण्णत्थ वच्चह? आयरिएहिं भणियं-जहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org