________________
१३०
तृतीयं परिशिष्टम् - टिप्पनानि
गुरोः । आलोच्याकथयत्सर्वामनुजस्य कथां तथा ॥ २९७॥ भवदत्तोऽवददहो ! काठिन्यमनुजन्मनः । ज्यायांसं यदवाज्ञासीदृषिमभ्यागतं गृहे ॥२९८॥ गुरुभक्तेरपि श्रेयः किं नामोद्वाहकौतुकम् ? । तत्परित्यज्य सानन्दः स ज्येष्ठं नान्वियाय यत् ॥ २९९॥ कश्चिदूचे तदा साधुर्भवदत्तासि पण्डितः । यदि त्वमनुजन्मानं निजं प्रव्राजयिष्यसि ॥३०० || भवदत्तोऽब्रवीद् देशे मगधाख्ये गुरुर्यदि । विहरिष्यति तददः कौतुकं दर्शयिष्यते ॥३०१|| विहरन्तोऽन्यदा जग्मुर्मगधानेव सूरयः । समीरणवदेकत्र श्रमणानां स्थितिर्न हि ||३०२|| आचार्यपादान् वन्दित्वा भवदत्तो व्यजिज्ञपत् । स्वजनानित आसन्नान्दिदृक्षे युष्मदाज्ञया ॥३०३॥ भवदत्तं ततश्चैकमपि तत्राऽऽदिशद् गुरुः । एकाकिनोऽप्यर्हति हि विहारो वशिनो मुनेः ||| ३०४ ॥ भवदत्तो जगामाथ स्वेषां संसारिणां गृहे । प्रव्रज्याग्राहणेनानुग्रहीतुमनुजं निजम् ||३०५ || नागदत्तस्य तनयां वासुकीकुक्षिसम्भवाम् । उपयेमे भवदेवो भवदत्तानुजस्तदा ॥ ३०६ ॥ कृतोद्वाहोत्सवाः सर्वे बन्धवस्तं मुदाऽभ्ययुः । मन्यमाना उत्सवोपर्युत्सवं तत्समागमम् ||३०७ || सद्यः पाद्येन तत्पादौ प्रक्षाल्य प्रासुकेन ते । पादोदकमवन्दन्त मत्वा तीर्थोदकाधिकम् ||३०८|| भवाब्धिमज्जनभयादवलम्बमिवेच्छवः। लगित्वा पादयोः सर्वे बन्धवस्तं ववन्दिरे ॥ ३०९ ॥ मुनिरप्यभ्यधाद् बन्धून् विवाहव्याकुलाः स्थ भोः ! । यामो विहर्तुमन्यत्र धर्मलाभोऽस्तु वोऽनघाः ! || ३१० ॥ तमृषिं बन्धवः सर्वे भक्तपानादिभिर्मुदा । एषणीयकल्पनीयप्रासुकैः प्रत्यलाभयन् ||३११|| तदानीं भवदेवोऽपि कुलाचारं प्रपालयन् । सेव्यमानां वयस्याभिर्नवोढां मण्डयन्नभूत् ।। ३१२ ॥ चक्रेऽङ्गरागं प्रेयस्या श्रीचन्दनरसेन सः । चन्द्रातपरसेनेवाकृष्टेन शशिमण्डलात् ॥३१३॥ तस्या मूर्ध्नि च धम्मिल्लं सुमनोदामगर्भितम् । बबन्ध ग्रस्तशशिनः स्वर्भाणोः श्रीमलिम्लुचम् ||३१४॥ तत्कपोलफलकयोः कस्तूर्या पत्रवल्लरीम् । मीनकेतोरिव जयप्रशस्तिमलिखत्स्वयम् ॥३१५॥ कुचयोर्मण्डनं यावन्नवोढः स प्रचक्रमे । तावदागममश्रौषीद्भवदत्तमहामुनेः || ३१६ || स भ्रातृदर्शनोत्तालः कितवो जयवानिव । द्रागुदस्थाद्विहायार्धमण्डितामपि वल्लभाम् ॥ ३१७|| हित्वाऽर्धमण्डितां कान्तां न गन्तुमुचितं तव । तस्याः सखीनामित्युक्तिं स एड इव नाशृणोत् ॥ ३१८॥ साग्रहं वारयन्तीनां तासां चेत्युत्तरं ददौ । कृत्वा गुरुप्रणिपातं पुनरेष्यामि बालिकाः ! ॥३१९॥ भवदत्तस्ततः स्थानात्प्लवमानः प्लवङ्गवत्। अभ्येत्य भवदत्तर्षिं तत्र स्थितमवन्द || ३२०|| वन्दित्वोत्थितमात्रस्यानुजस्य घृतभाजनम् । मुनिः श्रामण्यदानाय सत्यंकारमिवार्पयत् ॥ ३२९॥ भवदत्तस्ततोऽगारादनगारशिरोमणिः । निर्जगाम धियां धाम मनाग्भ्रातरि दत्तदृक् ॥ ३२२ ॥ भवदेवोऽपि तत्सर्पिर्भाजनं धारयन्करे । अन्वगाद्भवदत्तर्षिं तत्पदाम्भोजषट्पदः ॥३२३ || अन्येऽपि बहवो नार्यो नराश्च भवदेववत् । अन्वयुर्भवदत्तर्षिमुदूर्मिप्रमदह्रदाः ॥ ३२४ ॥ मुनिर्न कञ्चिद्व्यसृजत् मुनीनामुचितं ह्यदः । अविसृष्टाश्च मुनिना न व्याववृतिरे जनाः || ३२५ ।। दूरं गत्वा च निर्विण्णास्तं वन्दित्वा महामुनिम् । स्वयमेव व्याजुघुटुरादौ नार्यो नरास्ततः ॥ ३२६|| भवदेवस्तु भद्रात्मा चिन्तयामासिवानिदम् । अप्यविसृष्टा व्याघुटन्त्वेते नैते हि सोदराः || ३२७|| अहं तु सोदरोऽमुष्य द्वावावां स्नेहलौ मिथः । तदनेनाविसृष्टस्य न्याय्यं व्याघुटनं न मे ॥ ३२८ ॥ भक्तपानादिभारेणाक्रान्तोऽयं नूनमग्रजः । ततो ममार्पयद्वोढुं प्रसीदन्घृतभाजनम् ॥ ३२९|| चिरादभ्यागतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org